SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीचिन्तामणिपार्श्वनाथाय नमः ॥ पण्डितश्रीदेवविमलगणिविरचितम् श्री हीरसुन्दर' महाकाव्यम् (द्वितीयो भागः) ऐं नमः ॥ अथ नवमः सर्गः ॥ अथ सा 'त्रिदशी सूरिपुरुहूतपुरो व्यभात् । "मुक्तिसीमन्तिनीमुक्तदूतीव 'विवरीषया ॥१॥ (१) अथ - देवीसमागमानन्तरम् । (२) शासनदेवता । (३) हीरविजयसूरीन्द्रस्याऽग्रे । (४) सिद्धिवधूप्रेषितसन्देशहारिकेव । (५) पाणिग्रहणचिकीर्षया ॥१॥ अत्यनन्तरं सा सुरी सूरीन्द्रपुरो भाति स्म । उत्प्रेक्ष्यते - विशेषेण महामहपुरस्सरं वरीतुमिच्छया मुक्ता मुक्तिस्त्रीदूतीव ॥१॥ 'वाग्विलासैः सृजन्तीव 'हारहूरावहेलनाम् । तृणतां च नयन्तीव निक्कणं वेणुवीणयोः ॥२॥ पिकीव पञ्चमोद्गारं 'ऋतोः 'सख्युर्मनोभुवः ॥ गीर्वाणगृहिणी वाणी "श्रमणेन्दोः पुरोऽग्रहीत् ॥३॥ युग्मम् ॥ (१) वचनरचनाभिः । (२) द्राक्षाणामवगणनाम् । (३) पुनस्तृणीकुर्वन्ती( ती)।(४) वंशवीणारवम् ॥२॥ (१) स्मरमित्रस्य । (२) ऋतोर्वसन्तस्य । “सखा रतीशस्य ऋतुर्यथा वनम्" इति नैषधे । (३) देवी । (४) सूरीन्द्रस्याऽग्रे । (५) अवादीदित्यर्थः ॥३॥ युग्मम् ॥ हारहूरावगणनां कुर्वती पुनर्वंशविपञ्च्योर्न किञ्चित्करतां प्रापयन्ती सती सा वचनमुवाच । यथा काममित्रस्य ऋतोर्वसन्तस्य पञ्चमध्वनि पिकी गृह्णाति । पञ्चमालापं कुरुते इत्यर्थः ॥२-३।।। स्वयं श्रमणशक्रेण ध्यानेनेवाऽनुगामिना । याहूर्ताऽनुगृह्याऽहं "तत्र' हेतुः प्रसाद्यताम् ॥४॥ (१) मुनीन्द्रेण । (२) सेवकेनेव । (३) आकारिता । (४) प्रसादं विधाय । (५) आकारणे । (६) कथ्यताम् ॥४॥ 1. कारणं तत्प्रसाद्यताम् । हीमु० । ★ एतच्चिह्नाङ्किताः श्लोका हीलप्रतौ हीमुवद् दृश्यन्ते । एवं सर्वत्र ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy