SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् यथाऽनुगामिना सेवकेनाऽऽहूयते तद्वदहमनुग्रहं कृत्वाऽऽहूता तत्कारणं प्रसाद्यताम् ॥४॥ 'व्यापार्य कार्ये क्वचन किङ्करी मां कृतार्थय । वज्रस्वामीव "पद्मस्याऽर्थने 'पाथोधिनन्दनाम् ॥५॥ (१) आदिश्य-आज्ञां दत्वा । (२) सेविकाम् । (३) सफलीकुरु । (४) कमलानयने । ' (५) लक्ष्मीमिव ॥५॥ हे सूरीन्द्र ! आज्ञां दत्वा मां कृतार्थय । यथा वज्रस्वामी सहस्रपत्रपङ्कजमार्गणेन ग्रहणेन लक्ष्मी कृतार्थयामास ॥५॥ 'निगद्येति 'जिनाधीशशासनामरसुन्दरी । भेजे जोषं मुखे शारदीनेव 'शिखिमण्डली ॥६॥ (१) उक्त्वा । (२) जिनशासनदेवता । (३) मौनम् । "जोषमासनविशिष्य बभाषे" इति नैषधे । (४) शरत्कालसम्बन्धिनी । (५) मयूरमाला । “समय एव करोति बलाबलं प्रणिगदन्त इतीव मनीषिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयूरमणीयताम् ॥” इति माघे ॥६॥ शासनाधिष्ठात्री इति उक्त्वा मौनं तस्यौ । यथा शरत्कालसम्बन्धिनी मयूरमाला मुखे जोषं भजते। न ब्रवीतीत्यर्थः ।६॥ यदास्यकौमुदीकान्तवाक्पीयूषाभिलाषिणी । 'चलचञ्चलच्चक्षुरिव रेसा रभसादभूत ॥७॥ (१) सूरीन्द्रवदनचन्द्रस्य वचनामृतपानकाङ्क्षिणी । (२) चकोराङ्गना । (३) देवी । (४) औत्सुक्यात् ॥७॥ यदा० । यन्मुखचन्द्रस्य वचनामृताभिलाषिणी सा चकोरीव चञ्चलनेत्रा जाता ॥७॥ 'वाचं वाचंयमश्रेणीरोहिणीरमणस्ततः । "तत्पुरो "ग्र(ग्रा )हयामास सुधाया औरसीमिव ॥८॥ (१) वाणीम् । (२) मुनिमण्डलीषु चन्द्रः । (३) देवीवचनानन्तरम् । (४) देव्या अग्रे। (५) गृह्णाति स्म । (६) सुजाताम् ॥८॥ सूरीन्द्रस्तस्या: पुरः सुधायाः सुजातां वाचं बभाषे ॥८॥ अदृग्गोचरपारस्य वाङ्मयस्याऽम्बुधेरिव । यन्मनीषा सुखं देवि ! "तरीवर 'पारदृश्वरी ॥९॥ 1. इति गुर्वभिप्रायजिज्ञासायां देवताप्रश्नः । हील० । 2. रीवत्पार० हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy