________________
द्वादशः सर्गः
१२३ (१) अष्टापदश्रियास्तिल[क]वदाचरितम् । (२) गौतमस्वामी । (३) सूरीन्द्रः । (४) ऋषभम् । (५) पूर्वोक्तप्रकारेण । (६) स्तुत्वा । (७) नमति स्म । (८) भालस्थलयोजितहस्तः ॥११७॥
'आनन्दवृन्दारकनिर्झरिण्यां, निमज्ज्य जम्भद्विषतः करीव । 'निरस्तनिश्शेषरजाः स सूरि-निरीयिवान्श्रीजिनराजधाम्नः ॥११८॥
(१) प्रमोदगङ्गायाम् । (२) स्नानं कृत्वा । (३) ऐरावण इव । (४) निवारितानि समस्तानि स्वपररजांसि पापानि धूवलयश्च येन । (५) निर्गतः । (६) प्रासादात् । विमलवसतेरित्यर्थः ॥११८॥
'पिण्डीभवद्भभृति 'वस्तुपाल-यशः किमालोक्य परं 'जिनौकः । तस्मिन्नलीव स्मितपुण्डरीके, श्रेयोरसं संस्पृहयन्विवेशः ॥११९॥
(१) पिण्डाकारं सम्पद्यमानम् । (२) अर्बुदाचले । (३) वस्तुपालनाम्नः सचिवस्य यशः । (४) जिनगेहम् । (५) भ्रमर इव । (६) मोक्षमकरन्दम् । (७) वाञ्छन् ॥११९॥
'चुचुम्बेऽम्बरं यन्मणीमण्डपेन, द्युतिद्योतिताशेषदिङमण्डलेन । किमु स्नातुमाकाङ्क्षता स्वर्वहायाः, प्रवाहे विहायोमणीतापितेन ॥१२०॥
(१) स्पृशति स्म । (२) वस्तुपालवसतिरत्ननिर्मितमण्डपेन ।। (३) कान्तिभिः प्रकाशितनिखिलाशाप्रदेशगणेन । । (४) गङ्गायाः । (५) सूर्यतापतप्तीकृतेन ॥१२०॥
'विभाव्य यत्रोऽद्भुतशालभञ्जी-राजीस्त्रिलोकीयुवतीर्जयन्तीः । सुरैर्मरुद्यो( द्यौ )वतरूपशिल्पी, स्म कल्प्यते कारुरिवाऽनधीतिः ॥१२१॥
(१) दृष्ट्वा । (२) प्रासादे । (३) प्रधाना आश्चर्यकारिण्यो वा पुत्रिकापङ्क्तीः । (४) त्रिभुवनाङ्गनाः । (५) स्वरूपेण पराजया भव)न्तीः । (६) देवाङ्गनागणवपुश्चारिमकारकः । (७) कल्पितस्तर्कितः । (८) न विद्यते सम्यशिल्पकलानामध्ययनं शिक्षा यस्य सोऽनधीतिः - निकृष्टशिल्पी ॥१२१॥
असूयता शुभ्रिमविभ्रमाय, युयुत्सु यच्चैत्यमचण्डभासा । 'बिभर्ति विद्वेषिजिगीषयैता-ममोघशक्तिं किमु दण्डदम्भात् ॥१२२॥
(१) ईर्ष्या कुर्वता । (२) शुभ्रत्वस्य श्रिया( यै)।(३) योद्भुमिच्छु । (४) यः प्रासादः । (५) चन्द्रमसा । (६) धत्ते । (७) रिपूणां जेतुमिच्छया । (८) क्वापि न निष्फलीभवन्ती शक्तिमायुधविशेषम् । 'सांगि' इति नाम्नीम् ॥१२२॥ 1. विहारम् हीमु० । 2. जगन्नेत्रजैवात्रिकेणाऽऽत्पमूर्धा हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org