________________
१२२
श्री' हीरसुन्दर' महाकाव्यम्
जय त्रिदशसुन्दरीविकचनेत्रनीलोत्पलै'र्निपीतमुखशीतरुग्लवणिमैकपीयूष !' हे ! ॥११३॥
(१) त्रैलोक्यकामितपूरणे कल्पवृक्ष ! । (२) कमलवदन ! । ( ३ ) पुष्पमेव विशिखासनं धनुर्यस्येति स्मरः, स एव गजस्तद्विदारणे केसरी(रिन् !) । (४) देवाङ्गनाविनिद्रनयनकुवलयैः । ( ५ ) पीता( तं ) सादरमवलोकितं वदनचन्द्रस्य लावण्यरूपमद्वैतममृतं यस्य । (६) हे जगदीश ! त्वं जय ॥११३॥
जय प्रणतपूर्वदिक्प्रणयिमौलिमालागलन्मरन्दकणधोरणीस्त्रपितपादपद्मद्वय ! | जय त्रिभुवनेन्दिराभरण ! 'नाभिभूमीधनान्ववायगगनाङ्गणाम्बरमणे ! महोक्षध्वज ! ॥११४॥
(१) नतशक्रमुकुटपुष्पदामनिःसरन्मकरन्दबिन्दुसन्दोहधौत चरणकमलयुग्म । ( २ ) त्रैलोक्यलक्ष्मीभूषण ! । ( ३ ) नाभिनृपवंशव्योमभानो ! ॥११४॥
जय त्रिभुवनाशिवप्रशमनात्मगम्भीरिमापहस्तिततरङ्गिणीप्रियतमावलेप ! प्रभो ! । महोदयपयोरुहोदरविनोदपुष्पव्रता !
ऽम्बुजासन इव स्फुटीकृतविशिष्टसृष्टिक्रम ! ॥११५॥
( १ ) त्रिजगदरिष्टनिवारणस्वगाम्भीर्यविजितसमुद्रगर्व ! । (२) मोक्षाम्बुजमध्यक्रीडनभ्रमर ! । ( ३ ) विधातेव । ( ४ ) प्रकटीकृतप्रधानसर्गक्रम ! ॥ ११५ ॥
जय 'प्रमथितान्तराहितपताकिनीनायको'ल्लसत्कनककेतकी कमलगर्भगौरद्युते ! । 'भवाम्बुनिधिनिष्पतन्मनुजयान॑पात्र ! प्रभो !
* यशः सुमसुगन्धितत्रिभुवनोऽत्र जीयाश्चिरम् ॥११६ ॥ चतुर्भिः कलापकम् ॥ (१) निर्दलितान्तरङ्गरिपुसेनापते ! । ( २ ) विकसत्काञ्चनकेतकीपद्मानां गर्भवन्मध्यप्रदेश इव गौरा-पीता - “गौरः श्वेतपीतयो "रित्यनेकार्थः - कान्तिर्यस्य । ( ३ ) संसारसमुद्रे निमज्जनानां त्राणाय प्रवहण ! । ( ४ ) यशः कुसुमसुरभीकृतत्रिलोक ! । (५) जगति ॥ ११६ ॥
'कैलाशलक्ष्मीतिलकायमान- मिंवेन्द्रभूतिर्व्रतिनां बिडौजाः । "तमित्यभिंष्टुत्य मुदं दधानः प्रणेमिवान्प्राञ्जलिरादिदेवम् ॥११७॥
,
1. ० पात्रोच्छ्सद्यशः० हीमु० । 2. ०लास० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org