________________
द्वादशः सर्गः
चैत्यं 'प्रदक्षिणीचक्रे, समं सङ्खेन स प्रभुः । 'ज्योतिषां मण्डलेनेव, मन्दरं कौमुदीपतिः ॥ १०८ ॥ इति विमलवसतिवर्णनम् ॥
( १ ) प्रासादस्य प्रदक्षिणां प्रदत्ते स्मेत्यर्थः । (२) श्राद्धवर्गेण । ( ३ ) ग्रहनक्षत्रतारकाणाम् । (४) निकरेण । (५) मेरुम् । ( ६ ) चन्द्रमाः ॥ १०८ ॥
'विवेश वशिनामीशो, गर्भ गेहं जिनौकसः ।
" स्तम्बेरमीविवोढेव, गह्वरं विन्ध्यभूभृतः ॥ १०९ ॥
( १ ) प्रविशति स्म । ( २ ) जितेन्द्रियाणां योगिनां स्वामी । ( ३ ) गर्भागारे । ( ४ ) प्रासादस्य । (५) हस्तीव । ( ६ ) विन्ध्याचलस्य । (७) गुहाम् ॥१०९ ॥
'जीतोक्षलक्ष्मा 'भगवानदर्शि, सूरीन्दुना सम्मदमेदुरेण । "जगन्महानन्दपदं निनीषुः, स्वयं 'ततः किं 'कृपयऽवतीर्णः ॥ ११० ॥
१२१
( १ ) वृषभाङ्कः । ( २ ) ऋषभदेवः । (३) प्रमोदपुष्टेन । (४) सर्वजगज्जनम् । (५) मुक्तिस्थानम् । ( ६ ) प्रापयितुमिच्छुः । (७) आत्मना । (८) महानन्दपदात् । ( ९ ) सीदतां लोकानामनुकम्पया । (१०) आगतः ॥११०॥
अपि प्रपन्नो 'भुवने 'धुरीणतां, पुनस्तदीयस्पृहयेव निर्वृ । "शीलन्तमँङ्कच्छलतः क्रमाम्बुजं, जिनस्य 'जातोर्क्षमवैक्ष्यत प्रभुः ॥१११॥
( १ ) प्राप्तः । (२) भूमण्डले । ( ३ ) सुरासुरभुवनयोस्तु सुरद्रुमेषु तृप्तृषु क्षेत्राणामभावात्तदभावे वृषभाणामप्यभावः । धुरन्धरतां धुर्वहत्वम् । (४) धुरीणताया: काङ्क्षया । (५) मोक्षेऽपि । ( ६ ) सेवमानम् । (७) लाञ्छनस्य कपटात् । (८) पादकमलम् । (९) वृषभम् । (१०) पश्यति स्म ॥ १११ ॥
'पायं पायं विभोर्वका - विधौ "लवणिमामृतम् । "तदुद्गारैरिवाऽस्तावि, संस्तवैरिति सूरिणा ॥ १९२॥
( १ ) पीत्वा पीत्वा । अतिशायिभक्तिमत्तया वारं वारम् । 'पौनःपुन्ये णम्पदं द्विश्चेति णमुप्रत्ययः । धातोः प्रत्ययसहितस्य द्विर्भावश्च - पायं पायम् । (२) जिनस्य । ( ३ ) वदनचन्द्रे । (४) लावण्यसुधारसम् । (५) अमृतोद्वारैरिव । ( ६ ) स्तुतवान् । (७) स्तवनैः । अग्रे कथ्यमानैः ॥ ११२ ॥
जय त्रिजगदीहितामरतरो ! 'सरोजानन !
प्रसूनविशिखासनद्विरदभेदपञ्चान[न]! ।
1. o गेहे हीमु० । 2. गह्वरे हीमु० । 3 जातोऽक्ष० हीमु । स चाशुद्धः । 4. स स्तवै० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org