________________
१२०
श्री हीरसुन्दर' महाकाव्यम् (१) नृत्यम् । (२) कुर्वतीः । (३) विलासैः । (४) प्रासादे । (५) बयः पुत्रिकाः । (६) हस्तम् । (७) ऊर्वीकृत्य । (८) जिनम् । (९) आकारयन्तीः ॥१०२॥
यत्र पाञ्चालिकाशिल्पं, विभाव्य सुरसुभ्रवः । 'मेनिरे पद्मजन्मानं, स्वभूषापरिमोषिणम् ॥१०३॥
(१) प्रासादे । (२) पुत्तलिकानां रचनाचातुर्यम् । (३) दृष्ट्वा । (४) सुराङ्गनाः । (५) जानन्ति स्म । (६) धातारम् । (७) आत्मनः शोभानां तस्करम् । अस्माकं समग्रामपि शोभामादाय विधिना एताः सृष्टा इति ॥१०३॥
'चण्डरुक्किरणमण्डलस्मयं, खण्डयन्समवलोकि सूरिणा । मण्डपो 'विमलकीर्तिनर्तकी-नर्तनाय नवरङ्गभूरिव ॥१०४॥
(१) सूर्यस्य कान्तिनिकराहङ्कारम् । (२) शकलीकुर्वन् । (३) दृष्टः । ( ४ ) विमलमन्त्रिणः कीतिरेव नृत्यकृद्वधूस्तस्या नृत्यस्य करणाय । (५) नर्तनस्थानकभूमिरिव ॥१०४॥
'वैजयन्तं विजेतुं विभूषाभरै-वज्ररोचिःस्फुरच्चा[पच] क्रायुधः । यः स्वशृङ्गेण गर्वाद्दिवोगाहिना, गन्तुमुच्चैर्व्यवस्यन्निवोजस्वलः ॥१०५॥
(१) इन्द्रप्रासादम् । (२) शोभातिशयैः । (३) वज्राणां वज्रमणीनां कान्तिभिः कृत्वा प्रकटीभवद्धनुर्मण्डलमेवाऽऽयुधं-शस्त्रं यस्य । अथ च दम्भोलिः कान्त्या दीप्यमानश्चापो धनुः चक्रं रथाङ्गः आयुधानि [यस्य। (४) निजशिखरेण । (५) अभ्रंलिहेन । (६) स्वर्गलोके व्यवसायमुद्यमं कुर्वन् । (७) प्रबलबलवान् ॥१०५॥
आलुलोकेऽमुना गर्भगेहः पुना, राजधानीव धर्मावनीभास्वतः । 'चित्रितामय॑मोरगाणां निभा-द्भूर्भुवःस्वस्त्रयेणेव संसेवितः ॥१०६॥
(१) 'गभारो' इति लोकप्रसिद्धिः । (२) निवासनगरीव । (३) धर्मनामनृपस्य । "पाण्डोरवनिमार्तण्डस्याऽवदातागुणानह" इति पाण्डवचरित्रे । (४) आलेख्यं प्रापितानाम् । (५) सुरनरासुराणाम् । (६) कपटात् । (७) त्रिभुवनेन । (८) संसेव्यते स्म ॥१०६॥
चैत्यस्य पु( प )रितो देव-कुलिकाः पश्यति स्म सः । अर्बुदाद्रिश्रियाश्चूडा-भरणस्येव मुक्तिका ॥१०७॥
(१) चैत्यस्य चतसृष्वपि दिक्षु । (२) लघुदेवगृहाणि । (३) अर्बुदाचललक्ष्याः । (४) शिखामणे:-लोके 'वाक' इति प्रसिद्धस्य-भूषणस्य । अर्थात्प्रासादस्य परितो मुक्तिका लघुमुक्ताफलानीव । "सिता वमन्तः खलु कीर्तिमुक्तिकाः" इति नैषधे ॥१०७॥ 1. निरूप्य हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org