________________
द्वादशः सर्गः
११९ (१) प्रभुतामाधिपत्यं प्राप्तः । (२) जिनभक्तिप्रभावैः । (३) काङ्क्षन् । (४) सिद्धिस्थानाय राज्याय वा । (५) मन्त्री । (६) हस्तयोजनेन शोभमाने( नं) हस्तयोर्द्वन्द्वं यस्य ॥९७॥
हरिन्मणीनिर्मितं( त )सन्निधिद्वया, 'सिताश्मसोपानततिळलोक्यत । उपान्तविस्मेरवनीव जाह्नवी, जिनं भजन्ती विजिता समज्ञया ॥१८॥
(१) नीलरत्नै रचितं उपान्तयोर्युग्मं यस्याः । (२) स्फटिकानां सोपानानां श्रेणिः । (३) दृष्टा । (४) उभयोस्तटसमीपपार्श्वयोर्विनिद्रा वनी-काननं यस्याः । “स्ववनीसम्प्रवदत्पिकापि का'' इति नैषधे । (५) गङ्गा । (६) कीर्त्याभिभूता ॥१८॥
'व्रतीश्वरेणैक्ष्यत तोरणावली, 'जिनालयद्वारि 'शुभस्य शंसिनी । जिनाधिभर्तुः किमु मुक्तिकन्यया, कृतेयमुंद्वाहविधौ ‘विरञ्चिना ॥१९॥
(१) सूरिणा । (२) तोरणमाला । (३) प्रासादद्वारे । (४) कल्याणकारिणी । (५) सिद्धिनामकन्यकया सार्द्धम् । (६) रचिता । (७) पाणिग्रहणसमये । (८) ब्रह्मणा ॥१९॥
श्रीभिर्जगन्मूर्द्धविधूननीभि-श्चैत्येऽत्र वैचित्र्यदिदृक्षयेव । रूप्याचलोऽनल्पतनुः समीयिवान्, तेनैक्ष्यत स्थ( स्त )म्भततिः सिताश्मनाम्
॥१०॥ (१) शोभाभिः । (२) आश्चर्यातिशयेन जगज्जनानां मस्तकानां धूनयित्रीभिः । “अद्भुतकरी परमूर्द्धविधूननी" इति नैषधे । तथा- "परस्य हृदये लग्नं न घूर्णयति यच्छिर" इति चम्पूकथायाम् । 'लग्नं मर्मप्रविष्टं चमत्कृतं च सन्मस्तकं न कम्पयति' इति तट्टिपनके । (३) नानास्वरूपाना(णा )माश्चर्याणामालेख्यानां च द्रष्टुमिच्छया । (४) कैलाशः । (५) बहुरूपः । (६) समेतः। (७) सूरिणा । (८) दृष्टा । (९) स्तम्भश्रेणी । (१०) श्वेतपाषाणानां स्फटिकानाम् ॥१००॥
'महाव्रतिप्राप्तमृति पतिं निजं, समीक्ष्य कामं श्वसुरं "जिनं श्रितः । स्मरावरोधः किमु यत्र पुत्रिका-चयोऽमुना लोचनगोचरीकृतः ॥१०१॥
(१) ईश्वराल्लब्धमरणम् । (२) दृष्ट्वा । (३) भर्तुः पितरम् । (४) जिनं-तीर्थकरं कृष्णं च । (५) कृष्णपुत्रः काम इति श्रुतिः । (६) कन्दर्पान्तःपुरम् । “स्मरावरोधभ्रममुद्वहन्ती"ति नैषधे ॥१०१॥
'ताण्डवं तन्वतीविभ्रमैर्हस्तकान्-दर्शयन्तौरिहाऽनेकपाञ्चालिकाः । पाणिमुत्तम्भ्य शम्भुं प्रणन्तुं जना-नाह्वयन्तीरिवाऽसौ ददर्श प्रभुः ॥१०२॥
1. निजं पति हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org