________________
११८
श्री हीरसुन्दर' महाकाव्यम् 'वप्ताऽब्धिर्मथितोऽनवाप्तपदवत्कुत्राऽपि 'बन्धुर्विधुः
शून्ये व्योमनि बम्भ्रमीति 'विपिनेऽप्यन्यः "स्थितः स्वस्तरुः । "क्षिप्तका तु जनार्दनेन सदने पुंसा 'पुराणेन मे
जामिं श्रीरंपरा सुधाऽपि च सुरैः पानेन "निष्ठाप्यते ॥१४॥ दुखं कामगवी परा चरति च 'प्रोत्तानयानाऽम्बरे
धत्ते 'कौशिक' एष गोत्रदमनो मन्मूनि पादं पुनः । इत्याद्यतिमधीश ! भिन्धि किमिदं वक्तुं जिनं संप्रजः
स्वर्दन्तीव समागतो 'गजगणस्तेनाऽऽलुलोके पुरः ॥९५॥ युग्मम् ॥ (१) पिता क्षीरसमुद्रः अल्लभ्यते । (२) मेरुणा कृत्वा विलोडितः । (३) अप्राप्तवासस्थान इव । (४) भ्राता । (५) चन्द्रः । (६) निर्मानुषस्थाने । (७) नभसि । (८) पुनः पुनर्भ्राम्यति । (९) अन्यो भ्राता । (१०) वने स्थितिं चकार ।(११) नन्दने कानने । (१२) कल्पवृक्षः । (१३) लोकानां पीडाकारकेण । (१४) वृद्धेन । (१५) पुरुषेण । (१६) एका भागिनी । (१७) स्वगृहे क्षिप्ता । (१८) अपरा स्वसा । (१९) सुधा-अमृतम् । (२०) क्षयं प्राप्यते ॥१४॥
(१) तृतीया जामिः । (२) महाकष्टेन कृत्वा । (३) कामधेनुः । (४) प्रचलति गोचरं वा कुरुते । (५) ऊर्ध्वं पादा अधो वपुरेवंविधगमना। "कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रै"रिति नैषधे । (६) तदप्यनवलम्बने नभसि । (७) दधाति । (८) कौशिकः-शक्रः घूकश्च । कुत्रापि देशे यदा तिरस्कारवचनमुच्यते तदा अरे ! उलूक ! इत्युच्यते - लाभपुरादौ मेवातमण्डले च - तस्मानिन्द्यः । (९) तत्राप्ययं गोत्रस्य-वंशस्य गिरीणां च ध्वंसकृत् । (१०) मम मस्तके । (११) इत्यादिकां चिन्ताम् । (१२) जिन ! । (१३) नाशय । (१४) कथयितुम् । (१५) पुत्रपौत्रादियुतः । (१६) ऐरावणः । (१७) गजघटा । (१८) सूरिणा। (१९) दृष्टः ॥१५॥
'विमलाभिधधीसखः पुरो, ददृशे तेन हयं विभूषयन् । किमु सार्वनिनंसया शत-क्रतुरुंच्चैःश्रवसं समीयिवान् ॥१६॥
(१) विमलनामा प्रधानः । (२) अग्रे । (३) अश्वम् । (४) आरूढः । (५) जिनं नन्तुमिच्छया । (६) इन्द्रः । (७) उच्चैःश्रवोनामानं तुरङ्गं अध्यास्य । (८) समेतः ॥१६॥
'प्रभुतोपगतः प्रभुभक्तिभरैः, स्पृहयन्निव मुक्तिपदाय पुनः ।
सचिवो विमलोऽञ्जलिशालिशय-द्वितयः स्थितवान्भगवत्पुरः ॥१७॥ 1. ०कपत्यगो० हीमु० । अशुद्धो भाति । 2. सार्थ० हीमु० । अशुद्धोऽयं पाठः । 3. सिद्धि० हिमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org