SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः ११७ (१) गिलितं-भक्षितम् । (२) दृष्ट्वा । (३) राहुणा । (४) निजकान्तं विधुम् । (५) प्रासाददम्भा । (६) चन्द्रज्योत्स्ना । (७) राहुभीत्या ।(८) अर्बुदाचले । (९) आगत्य । (१०) स्थिता ॥४८॥ चैत्यमूर्द्धविधुकान्तनिष्पत-त्पाथसि प्रतिमितेनिभाद्विधुः । लक्ष्मपङ्कमपनेतुमात्मनः, स्वाति दुग्धजलधेर्धिया किमु ॥८९॥ (१) प्रासादशृङ्गे सन्दृब्धेभ्यश्चन्द्रकान्तमणिभ्यो निस्सरद्वारिणि । (२) प्रतिबिम्बस्य । (३) कपटात् । (४) कलङ्ककर्दम् । (५) माष्टुम् । (६) स्नानं कुरुते । (७) क्षीरसमुद्रबुद्ध्या ॥८९॥ 'यन्मणीमयशिखासु बिम्बितं, 'बिम्बमम्बरमणिर्वहन्यभात् । ईयिवानंयमियत्तया "श्रियः, कौतुकार्दनुमिमीषयोऽस्य किम् ॥१०॥ (१) यस्या विमलवसते रत्नरचितशिखरेषु । (२) प्रतिबिम्बितम् । (३) मण्डलम् । (४) भास्करः । (५) कलयन् । (६) भाति स्म । (७) आगतः । (८) भानुः । (९) एतावत्प्रमाणत्वेन । (१०) अनुमातुं प्रमाणीकर्तुमिच्छया । (११) प्रासादस्य । (१२) लक्ष्याः ॥९०॥ इह जिनालयवज्रविनिर्मिता-म्बरविलम्बिशिखाग्रनिघर्षणात् । 'उसि रन्ध्रमजायत यामिनी-प्रणयिनः कपटादिव लक्ष्मणः ॥११॥ (१) अर्बुदे । (२) प्रासादस्य हीरककल्पिताया आकाशमाश्रयन्त्या-अभ्रङ्कषाया इत्यर्थः - शिखायाः शिखरस्याऽग्रेण शिखरविभागेन सङ्घर्षात् । (३) हृदये । (४) छिद्रम् । (५) जातम् । (६) चन्द्रस्य । (७) लाञ्छनस्य ॥११॥ 'अभितः 'सितयद्वसतै विशदः, शुशुभे लघुदेवगृहप्रकरः । 'उडुयौवतमेतदिहापगतं, शशिना सह 'रन्तुमिवाऽम्बरतः ॥१२॥ (१) चतुर्ध्वपि पार्श्वेषु । (२) विशदाया यस्या विमलवसतेः । (३) श्वेतः । (४) देवकुलिकानिकरः । (५) तारका एव युवतीनां समूहः । (६) एतत्प्रत्यक्षम् । (७) अर्बुदाचले। (८) आगतम् । (९) विधुना । (१०) क्रीडितुम् ॥१२॥ 'निग्रन्थपृथिवीनाथ-श्चैत्यं विमलमन्त्रिणः । 'वैजयन्तमिव प्रीत्या, प्राविशदिशेश्वरः ॥१३॥ (१) सूरीन्द्रः । (२) विमलवसतिम् । (३) इन्द्रप्रासादम् । (४) शक्रः ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy