SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्री' हीरसुन्दर' महाकाव्यम् ( १ ) शनैः शनैः । (२) अधिरोहन् । (३) अर्बुदाचलोपरिभूमीम् । ( ४ ) बभाज । (५) मुनीन्द्रः । ( ६ ) शम्भूनां - जिनानां ईश्वरस्य च गेहैः । (७) पावनीकृतभूमण्डलाम् । ( ८ ) कैलाशस्य । ( ९ ) शृङ्गाग्रभूरिव । (१०) धनदः । " गगनमवजगाहे मन्दमन्दं मृगाङ्क" इति चम्पूकथायाम् ॥८३॥ ११६ 'पुण्यभाजां हृदाकृष्टिमन्त्रानिव, श्रीमदर्हगृहान्निर्जितस्वर्गृहान् । "अर्बुदश्रीवतंसायमानान्प्रभु - नैत्रैपत्रैरसौ प्रीतचेताः पौ ॥८४॥ (१) सुकृतवताम् । ( २ ) हृदयाकर्षणमन्त्रान् । ( ३ ) शोभायुक्तप्रासादान् । (४) पराभूतस्वर्गगेहान् । (५) अर्बुदाचललक्ष्म्या उत्तंसवदाचरितान् । (६) नयनपुटकै: । (७) हृष्टमनाः ॥८४॥ यत्र 'विश्वत्रयीश्रीनिवासा जिना - धीशसौधा: 'स्वशृङ्गाग्रदण्डोपधेः । *स्वर्गृहानु( नू )र्ध्वर्मुत्तम्भ्य पाणीन्निजान, "भर्त्सयन्तीव भूषाभिरुत्सेकिनः ॥८५॥ ( १ ) त्रैलोक्यलक्ष्मीवाससौधा: ( २ ) जिनगृहाः । ( ३ ) निजशिखरोपरिनिबद्धदण्डदम्भात् । ( ४ ) स्वर्गसौधान् । (५) उच्चैः कृत्वा । ( ६ ) तिरस्कुर्वन्तीव । (७) शोभाभिः ( ८ ) गर्ववन्तः ॥ ८५ ॥ 'निक्वणत्किङ्किणीर्मारुतान्दोलिता, यत्पताका विलोक्येंन्दुकुन्दोज्ज्वलाः । किं वहयुंर्मिनिर्घोषहुङ्कारिणी, स्पर्द्धया सिद्धसिन्धुर्नभःपद्धतौ ॥८६॥ ३ "1 (१) शब्दायमानाः क्षुद्रघण्टिका यासु । (२) पवनेन चञ्चलीकृताः । (३) प्रासादवैजयन्ती: । ( ४ ) शशिमुचकुन्दत्कुसमवदुज्ज्वलाः । ( ५ ) प्रसरति । "स्रोतः सारस्वतं वहत् ' इति चम्पूकथायाम् । “वहत्प्रवर्त्तमानं प्रसरच्चे " ति तट्टिपनके । ( ६ ) कल्लोलानां कोलाहलैः कृत्वा एता किं मत्पुरः अहमेवाऽस्मि नाऽपरेति स्पर्द्धामादधती सती हुङ्करोतीत्येवंशीला । अथा ( थवा ) इयं मां जेष्यतीति गर्वात् हुङ्करोतीत्येवंशीला । (७) गङ्गा । (८) गगनमार्गे ॥८६॥ 'वैमलीयवसतिं व्रतीशिता, दुग्धसिन्धुवयसीमिवैक्षत । 'श्वेतदन्तितुरगान्वितां सुधा - शालिनीं 'जिनपवित्रान्तराम् ॥८७॥ ( १ ) विमलामात्यसम्बन्धिनीं वसतिम्-जिनप्रासादम् । (२) क्षीरसमुद्रसखीमिव । ३) शुभ्रगजाश्वैस्तथा एरावणोच्चैःश्रवोभिर्वा कलिता:( ताम्) । “पयोनिलीनाभ्रमुकामुकावली" तथा “सहस्त्रमुच्चैःश्रवसां वसन्निवे 'ति नैषधे । क्षीरसमुद्रे ऐरावणोच्चैःश्रवसां बाहुल्यम् । ( ४ ) सुधया पक्कचूर्णकलेपेनाऽमृतेन च शोभनशीलाम् । (५) जिनेन - तीर्थकृता कृष्णेन च पवित्रीकृतमध्याम् ॥८७॥ 'कुक्षिसात्कृतमवेक्ष्य सिंहिका - सूनुना स्वपतिशीतदीधितिम् । 'चैत्यकैतववतीव कौमुदी, यद्भयदिह समेत्य ती ॥८८॥ ७ 1. त० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy