________________
द्वादशः सर्गः
११५ (१) तोरणमालालीलालक्ष्मीम् । (२) गगनमण्डलोड्डीयमानाः । (३) मुक्तिनगर्याम् । (४) गन्तुमिच्छोः । (५) विधिना । (६) वन्दनमालिका ॥७८॥
क्वापि झात्कारिणो निर्झराम्भ:प्लवाः, 'प्लावयन्ति स्म तत्पर्वतोपत्यकाम् । 'सिद्धसिन्धुर्नभस्तो "निरालम्बना, निष्पतन्तीह क्लृप्तावलम्बा किमु ॥७९॥
(१) 'झात्कार' इति शब्दोऽस्त्येष्विति झात्कारिणः । निर्झराणां ध्वनेत्किार इति संज्ञास्ति । यदुक्तं च "झरन्निर्झरझात्कारी'ति । (२) निर्झरपयःप्रवाहाः । (३) निर्भरं भरन्ति स्म । (४) अर्बुदाचलोपरिभूमीम् (५) गगनगङ्गा । (६) आकाशात् । (७) निर्गतावलम्बना । (८) भ्रश्यन्ती दिवः । (९) इह-पर्वते । (१०) निर्मितालम्बा ॥७९॥
कुत्रचित्पर्वते कुर्वतेऽन्तर्मदै-मदुराः 'सिन्धुरा गर्जिविस्फूर्जितम् । यज्जितेनेव विन्ध्याद्रिणा प्राभृतं , प्रापिताः शक्रनागानुवादा इमे ॥४०॥
(१) कस्मिन्नपि प्रदेशे । (२) मध्ये मदो येषाम् । (३) गजाः । (४) गर्जारवस्फूर्तिम् । (५) अर्बुदाचलपराभूतेन । (६) विन्ध्याचलेन । (७) ढौकिताः । (८) ऐरावणानुकारिणः ॥८०॥
आशुगोलालसालाङ्गहारो भ्रम-द्धृङ्गवाग्गीतिवेल्ललताहस्तकः । 'सूरिपादाम्बुजस्पर्शमासाद्य यो, नृत्यतीव प्रमोदं दधद्भूधरः ॥८१॥
(१) वातैश्चञ्चलीकृतैस्तरुभिरङ्गविक्षेपो नाट्यावसरे यस्य । (२) मकरन्दपानार्थमितस्ततः पर्यटतां भ्रमराणां वाग्गुञ्जारः, सैव गानं यस्य चञ्चलीभवत्यो[र]र्थाद्वातैरेव तरला वल्लयस्ता एव हस्तका चातुरीदर्शनाय हस्तदर्शनानि यस्य । (३) प्रभुपादपद्मानुषङ्गम् । (४) प्राप्य (५) अर्बुदः ॥८१॥
यः परान्कौतुकैः कामत्कण्ठय-नांस्य जहे मनश्चित्रमत्राऽस्ति किम् । स्मेरयन्नप्यूशेषं कुमुत्काननं, 'पद्ममुद्बोधयेपार्वणेन्दुः किमु ॥४२॥
(१) अन्यजनान् । (२) कुतूहलस्थानावलोकनैः । (३) अतिशयेन । (४) उत्कण्ठांउत्सुकतां प्रापयन् । (५) सूरेः । (६) हरति स्म । (७) विकाशयन् । (८) सकलम् । (९) कैरववनम् । (१०) सूर्यविकाशिकमलम् । (११) किं विनिद्रीकुर्यात् । (१२) राकामृगाङ्कः ॥८२॥
'मन्दमन्दं चलन्नर्बुदोर्वीधरा-धित्यकामध्यरोहातीनां पतिः ।
शम्भुसौधैः पवित्रीकृतोर्वीतलां, रूप्यशैलस्य चूलामिवेच्छावसुः ॥८३॥ 1. झाङ्का० हीमु० । 2. पर्वते कुत्रचित्० हीमु० । 3. कुञ्जरा हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org