________________
११०
श्री हीरसुन्दर' महाकाव्यम् 'उत्पथे प्रस्थितांस्तन्वतोपलं, तत्र सूरिः "किरातान्परानप्यसौ ।
सत्पथेऽतिष्ठिपत्सत्त्वरक्षाव्रतै, रश्मिभिः शूकलान्सांदिवद्वाजिनः ॥५३॥
(१) उन्मार्गे । (२) प्रचलतः । (३) कुर्वतः । (४) चञ्चलताम् । (५) सर्वव्यसनान्याद्रियमाणान् भिल्लान् । (६) सन्मार्गे । (७) जीवदयादिनियमैः । (८) रज्जुभिः । (९) दुर्विनीतवाहान् । (१०) अश्ववारः ॥५३॥
सूरिशीतांशुरांपच्छ्य 'भिल्लाधिपं, सम्प्रणिन्ये पुरस्तादथ प्रस्थितिम् । तावदग्रे दर्दर्शाऽर्बुदोर्वीधरं, विन्ध्यमभ्येतमेतं "विनन्तुं किमु ॥५४॥
(१) सूरिचन्द्रः । (२) आज्ञामादाय । (३) अर्जुनम् । (४) चक्रे । (५) प्रस्थानम् । (६) अर्बुदाचलम् । (७) विन्ध्याचलम् । (८) आगतम् । (९) सूरिम् । (१०) नमसितुम ॥५४॥
भूभृतस्तुङ्गिमश्रीभिरंन्यान्परा-भूय शृङ्गाग्ररङ्गत्पयोदोपधेः । छत्रमाधत्त मायूरमूर्वीधरा-धीशितुर्नन्दनस्तेज्जयाकं किमु ॥५५॥
(१) पर्वतान्नृपांश्च । (२) महिमलक्ष्मीभिः । उच्चत्वस्य पराक्रमस्य करितुरगादेः परिवारस्य जात्यादेर्वा महत्त्वस्य श्रीभिः । (३) अपरान् । (४) विजित्य । (५) शिखरोपरि सञ्चरज्जलधरघटाकपटात् । (६) दधार । (७) मयूरपिच्छसम्बन्धिशैलेन्द्रस्य चक्रवर्तिनो वा। (८) पुत्रः । अर्बुदनामा । (९) तेषां गिरीणां नृपाणं च जयचिह्नम् ॥५५॥
'अध्वरोद्धः सुधाधामचण्डद्यतो-विन्ध्यधात्रीधरस्येव संस्पर्द्धया । 'शृङ्गलेखाभिरैभ्रषाभिर्नभः-पद्धतिं रुद्धवानबूंदोर्वीधरः ॥५६॥
(१) मार्गरोधविधातुः । (२) चन्द्रसूर्ययोः । (३) विन्ध्याचलस्य । ( ४ ) शिखरराजीभिः । (५) अम्बरचुम्बिनीभिः । (६) गम(ग )नमार्गम् । (७) रुरोध । (८) अर्बुदशैलः ॥५६॥
मौलिलीलायमानामृतांशक्षर-निर्भराम्भःप्रवाहस्वरूपैरसौ । सातपत्रस्फुरच्चामरैर्भूभृतां, राजभावं बिभर्तीव भूमीधरः ॥५७॥
(१) मौलि( लौ)-शिखराग्रे लीलया आचरन् यश्चन्द्रस्तथा निस्सरतां निर्भराणां पयसां धारास्त एव स्वरूपमात्मा येषां तैः । (२) छत्रेण सहितैश्चञ्चलीभवद्भिश्चामरैः । (३) भूभृतांशैलानां नृपाणां च । (४) स्वामित्वम् । (५) धरतीव । (६) अर्बुदगिरिः ॥५७॥ 'क्वापि शृङ्गे विनीले तमालैः शशी, यस्य 'चूडामणीवत्कंचानां चये ।
क्वापि शोणाश्मशृङ्गे पुनर्भानुमान्, प्रॉग्गिरेः सानुनीवोदयन् लक्ष्यते ॥५८॥ 1. यो गिरिस्तु० हीमु० । 2. हीमु. एतच्छ्लोक: ५८तमोऽस्ति । 3. हीमु. एतच्छ्लोक: ५७तमोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org