SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १०९ च यासु । (५) पुत्रैः वनेन च प्रमोदवती: । नन्दनाशब्द आकारान्तोऽपि दृश्यते । “विशेषतीर्थैरिव जह्वनन्दना" इति नैषधे । (६) सतां सङ्गतीरिव ॥४७॥ 'आश्मगर्भीयसन्दर्भविभ्राजिनीः, शालभञ्जीरिव स्वैरसञ्चारिणीः । सूरिपादान्प्रेणम्यान्प्रणन्तुं निजा-स्तत्र कान्तां किरातेशिताऽजूहवत् ॥४८॥ चतुर्दशभिरन्त्यकुलकम् । इति भिल्लीवर्णनम् ॥ (१) मरकतमणिसम्बन्धिन्या रचना( न )या शोभनशीलाः । (२) पुत्रिकाः । (३) स्वतन्त्रं दिव्यानुभावात्सञ्चरशीलाः । (४) प्रभोश्चरणान् । (५) प्रणमनयोग्यान् ।(६) आत्मीयाः । (७) अर्जुनः । (८) आकारयामास ॥४८॥ चतुर्दशवृत्तानि ॥ जङ्गमं सार्वभौमं किमुर्वीभृतां, सूरिशीतांशुमायान्तमालोक्य तम् । अर्जुनाम्भोजनेत्रास्तदंहिद्वयं, नेमुराँनन्दसान्द्रीभवन्मानसाः ॥४९॥ (१) वसुधाविहरणशीलम् । (२) चक्रिणम् । (३) गिरीणाम् । मेरुम् । (४) सूरिचन्द्रम् । (५) आगच्छन्तम् । (६) अर्जुनप्रियाः । (७) सूरिपादद्वन्द्वम् । (८) प्रमोदेन नीरन्ध्रीभवनाला[न्नात्मा] यासाम् ॥४९॥ कामिनीभिः 'किराताधिभर्तुस्ततो, मौक्तिकौधेरैवाकीर्यत श्रीप्रभुः । सोऽप्यवैश्वस्त्यलक्ष्मीमिवाउँनश्वरी, स्वेन ताभ्यो ददौ धर्मलाभाशिषम् ॥५०॥ (१) भिल्लपतेरर्जुनस्य । (२) वर्धापितः । (३) अवैधव्यश्रियमिव । “विश्वस्ता विधवा समे" इति हैम्याम् । तथा - "नलात्स्ववैश्वस्त्यमनाप्तुमानता" इति नैषधे । (४) शाश्वताम् । (५) सूरिरात्मना । (६) अर्जुनप्रियाभ्यः ॥५०॥ 'देशनाम्भोदधारां सुधाया इव, ज्येष्ठजामि मुनीन्द्रस्य पीत्वाऽऽदरात् । 'भिल्लभर्तुर्जजृम्भे मनःकानने, बोधिफुल्ललताश्लेषिहर्षद्रुमः ॥५१॥ (१) धर्मदेशनामेव मेघवृष्टिम् । (२) अमृतस्य । (३) वृद्धभगिनीम् । (४) सादरं श्रुत्वा । (५) अर्जुनस्य । (६) विकसितः । (७) चित्तारामे । (८) सम्यक्त्वरूपविस्मेरवल्ल्यालिङ्गितः प्रमोदपादपः ॥५२॥ 'वर्णयामः किमस्याऽमृतस्त्राविणी, बिभ्रतो भारती वज्रसूरीन्द्रवत् । 'वङ्कचूलो यथा धर्मघोषेन(ण) य-द्येन रौद्रोऽपि भिल्लप्रभुर्बोधितः ॥५२॥ (१) स्तुमः । (२) सूरीन्द्रस्य । (३) सुधावविर र्षि )णीम् । (४) वज्रस्वामीव । (५) वङ्कचूलनामा पल्लीपतिः । (६) यथेत्युपमानार्थः । (७) धर्मघोषनामसूरिणा । (८) चण्डाशयोऽपि (९) अर्जुनः ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy