________________
श्री' हीरसुन्दर' महाकाव्यम्
निष्कुहा (टा ) नोकहोत्फुल्लपुष्पोच्चये, षट्पदान्पाणिभिर्दूरतः कुर्वतीः । "स्पर्द्धितां बिभ्रते 'वाग्विलासैः सहा - ऽस्मार्कमे ते हृदीतीव रोषोदयात् ॥४३॥ (१) गृहारामद्रुमविनिद्रत्कुसुमप्रकरे । (२) हस्तैः । ( ३ ) भृङ्गान् । ( ४ ) स्पर्द्धनशीलताम् । (५) वचनैः । (६) भृङ्गाः । (७) कोपि ( प ) प्रादुर्भावात् ॥४३॥
।
१०८
'नाभिदघ्ने 'हृदेऽम्भोविहारालसा - स्त्रसमुत्पादयन्ती रथाङ्गीकचित् । तद्विभूषां स्तनाभ्यां गृहीत्वा 'पुरा, किं पुनस्तंद्वपुः पीतिमादित्सया ॥४४॥
(१) नाभिप्रमाणे । “नीलतमालका नाभिरस्या " नाभिदघ्ना इत्यर्थः । इति चम्पूकथाटिप्पन । (२) द्रहे । ( ३ ) जलकेलिलम्पटाः । (४) आकस्मिकं भयम् । ( ५ ) जनयन्तीः । (६) चक्रवाकान् । (७) रथाङ्गशोभाम् । (८) पूर्वम् । ( ९ ) रथाङ्गशरीराणां गौरिम्न आदातुमिच्छया । पीतवर्णताया गृहीतुं वाञ्छया ॥४४॥
क्वापि 'विश्लेषयन्तीर्बकान्जीवना-द्धौर्त्तराष्ट्रन्पुनर्भीमबाहा इव । राक्षसीवर्क्षपारागिणीरुँत्पला - काङ्क्षिणी: 'क्लृप्तकीलालपानाः पुनः ॥४५॥
(१) वियोगं प्रापयन्तीः । (२) चकोटान् बकनामराक्षसांश्च । ( ३ ) जलात् जीवितव्याच्च । ( ४ ) हंसान् धृतराष्ट्रपुत्रान् - दुःशासनप्रमुखान् [च] । (५) भीमभुजा इव । ( ६ ) क्षपायां-हरिद्रायां निशायां च रागवती: । "हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी "ति हैम्याम् । (७) कुवलया-नामभिलाषणशीलाः । पक्षे - उत्कृष्टमांसाभिलाषिणी । ( ८ ) कृतं जलस्य पानं याभिः । " कीलालं भुवनं वनं घनरसो यादोनिवासा ( सोऽ )मृत" मिति हैम्याम् । पक्षेनिर्मितरुधिरपानाः ॥४५॥
'केलिवापीपयोमज्जनव्याजतो, 'नागनारीं विजेतुं व्रजन्तीरिव । “नागगेहोपसीदत्तदम्भोजदृ- ग्विभ्रमं कुर्वतीँनिस्सरन्तीः पुनः ॥४६॥
(१) क्रीडादीर्घिकासु जले ब्रूडनस्य च्छलात् । (२) नागवधूः । (३) रूपश्रियाऽभिभवितुम् । ( ४ ) यान्तीरिव । (५) नागगृहादागच्छन्नागाङ्गनाभ्रान्तिम् । ( ६ ) सृजन्ती: । ( ७ ) निर्गच्छन्तीः ॥ ४६ ॥
'भास्वतः कान्तिवद्वारुणीरागिणीः, शालिपत्रावली: शाखिशाखा इव । “नन्दनानन्दिनीर्मन्दरोर्वीरिव, प्रीणयन्तीर्मनः साधुगोष्ठीरिव ॥४७॥
( १ ) सूर्यस्य । ( २ ) कान्तिरिव । (३) मदिरायां रागवतीः प्रतीच्यां च रागयुक्ताः । सायं सूर्यकान्तिः प्रतीच्यां सरागा स्यादिति । ( ४ ) शालिन्य: शोभनशीलाः पत्रवल्लयः वर्णमालाः 1. ०ङ्गात्क० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org