SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १०५ (१) सरस्वतीनदी । (२) विकचैर्बहुभिः कमलैः कलिता । (३) सिद्धपुरलक्ष्म्या रत्नकाञ्चीव । (४) उद्दामैर्महाजनमहोत्सवैः । (५) पवित्रीचकार । (६) सिद्धपुरम् ॥२८॥ 'श्रीमदाचार्यपादा उषित्वा किय-द्वासकांस्तांतपादैः समं 'वर्त्मनि । ते न्यवर्त्तन्त तेभ्यस्तँदादेशतः, सैकतेभ्यः पयोधेरिवाऽम्भःप्लवाः ॥२९॥ (१) श्रीविजयसेनसूरयः । (२) स्थित्वा । (३) कियत्सङ्ख्याकान्वासकान्-वासरान् । (४) श्रीहीरविजयसूरिभिः । (५) सार्द्धम् । (६) मार्गे । (७) पश्चाद्वलन्ते स्म । (८) सूरीन्द्रादेशात् । (९) तटेभ्यः । (१०) सागरस्य । (११) पयःपूराः ॥२९॥ एष 'निघ्नंस्तमो विश्वमुंबोधयन्, कैश्चिद्धन्महोभिर्मुनीन्द्रैः समम् । तत्पुरात्प्रस्थितिं तेनिवान्पद्धतौ, सार्वभौमो ग्रहाणामिवाऽभ्र(भ्रे) ग्रहैः ॥३०॥ (१) सूरिः । (२) हिंसन् । (३) अज्ञानमन्धकारं च । (४) प्रतिबोधयन् जागरयंश्च । (५) प्रकटीभवद्भिस्तेजोभिः । प्रतापैश्च । (६) ग्रहचक्री-सूर्यः । (७) आकाशे ॥३०॥ 'भीरुभावान्निजं व्यालमालाकुलं, भीष्ममौज्झ्याऽऽश्रयं नागपूरागता । किं महीमण्डलं भिल्लपल्ली पुरो, हीरसूरीन्दुना व्यालुलोके क्रमात् ॥३१॥ (१) बिभेतीत्येवंशीलत्वेन-भीरुकतया । (२) आत्मीयम् । (३) भुजङ्गमभरभृतम् । (४) रौद्रम् । (५) त्यक्त्वा । (६) स्थानम् (७) नागनगरी । (८) भूमण्डलम् । (९) दृष्टा ॥३१॥ क्वापि शक्तिं वहद्भिः कुमारैरिवा-ऽम्भोजनाभैरिवोद्यद्दाधारिभिः । याऽभिरूपैरिवाऽऽभाति कादम्बरी-सादरीभूतचित्तैः किरातै ता ॥३२॥ (१) शक्ति:-प्रहरणविशेषः । आयसः कुन्तः इति लोके प्रसिद्धः । ( २ ) स्वामिकार्त्तिकैरिव । (३) कृष्णैरिव । (४) गदाधरैः । ( ५) या-पल्ली । (६) पण्डितैरिव । (७) मदिरापाने आदरपरमनोभिः प्राज्ञैः । कादम्बरीनामग्रन्थ आदरोपेतमानसैः ॥३२॥ तत्र 'वित्रासयन्शात्रवानर्जुनो, भाति पल्लीपतिः कङ्कपक्षाश्रितः । 'जिष्णुभावं सुभद्रानुषङ्गं पुन-बिभ्रंदद्वैतधानुष्कतां पार्थवत् ॥३३॥ (१) भयव्याकुलान्कुर्वन् । (२) रिपून् । (३) अर्जुननामा पल्लीपतिः । ( ४ ) बाणयुक्तः । पक्षे-कङ्कस्य युधिष्ठिरस्य पक्षं-पार्श्वमाश्रितः । (५) जयनशीलतां अर्जुनत्वं च ।(६) शोभनैर्मङ्गलैः सङ्गो यस्य । पक्षे-सुभद्रया जायया सह सङ्गो यस्य । (७) असाधारणधनुर्द्धरताम् । (८) अर्जुन इव ॥३३॥ 1. ०यन्नर्जुनः शात्रवानस्ति पल्ली० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy