________________
द्वादशः सर्गः
१०३ (१) धैर्येणाऽधरिते । (२) सेवमाने इव । (३) लज्जया लघूभवदुच्चैस्तरत्वं यस्य । ४) सुमेरौ । (५) सिंहासने । (६) शूरतया । (७) परिभूय । (८) सिंहः । (९) नीचैर्विभागे ॥१६॥
अर्हता त्रातुर्मात्माश्रितान्संसृते-भीलुकान्कि चतुर्दिक्समेतान्जनान् । यत्र तेषां चेतस्रो गतीर्वा निरा-कर्तुमेताश्चतस्रः कृता मूर्तयः ॥१७॥
(१) रक्षितुम् । (२) स्वशरणीभूतान् । (३) संसारात् । (४) बिभेतीत्येवंशीला:(लान्) । (५) चतसृभ्यो दिग्भ्य समागतान् । (६) जनानाम् । (७) नरकादिकाः । (८) नाशयितुम् । (९) देहाः ॥१७॥
भाति भामण्डलं 'राजवैरादिवा-ऽऽप्तस्य पृष्ठे प्रविष्टः प्रणश्यारुणः । ब्रह्मणा यत्र मुक्तः किमर्चिव्रजो, 'विश्वकृत्तक्षिताङ्गस्य वा 'भास्वतः ॥१८॥
(१) राज्ञा-नृपेण चन्द्रेण च विरोधात् । (२) विस्व( श्व)स्तस्य मित्रस्य वा । (३) सूर्यः । (४) कान्तिपूरः । (५) देववर्द्धकिनोल्लिखि]तवपुषः । (६) भास्करस्य । “आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखि]तो विभाती'"ति रघुकाव्ये ॥१८॥
किं प्रिये पूर्णिमाशर्वरी चन्द्रिका, वक्त्रचन्द्रस्य पत्युर्द्विपाश्वी श्रिते ।
कुन्तलैय॑कृते वाउँनुनेतुं स्वयं, राजतोऽभ्यर्णयोश्चामराली प्रभोः ॥१९॥
(१) स्त्रियौ । (२) राकारात्रिः । (३) ज्योत्स्ना । (४) वदनविधोः । (५) भर्तुः । (६) केशैः । (७) तिरस्कृते । (८) प्रसादयितुम् । (९) समीपयोः । (१०) चामरश्रेणिः ॥१९॥ 'आतपत्रत्रयी यत्र रेजे प्रभोः, माम्बरोद्योतकृत्त्वत्प्रसत्त्याऽभवम् । मां त्रिलोक्यां पुनोतकं त्वं सृजे-तीव वक्तुं त्रिमूर्तिः श्रितोऽयं शशी ॥२०॥
(१) छत्रत्रयी । (२) पृथ्वीगगनयोरुद्योतकृतम् । (३) तव प्रसादेन । (४) उद्योतकारकम् । (५) कुरु । (६) तिस्रो मूर्त्तयो देहो यस्य ॥२०॥ 'बिभ्रतीभिः खगान्यत्र विभ्राजिन-चन्द्रहासप्रसूनप्रतानान्वहन् ।
चैत्यशाखी शिखाभिः श्रिताभिर्नभः, स्वर्गिवृक्षान्विजेतुं किमुंद्यच्छते ॥२१॥
(१) धारयन्तीभिः । (२) पक्षिणो बाणांश्च । (३) शोभनशीलान् । (४) शशिनो हसितस्य श्वेतिम्ना तुल्यानां कुसुमानां स्तबकान् । पक्षे-चन्द्रहासः खड्गः । (५) धारयन् । (६ चैत्यतरुः । (७) गगनम् । (८) गताभिः । (९) कल्पतरून् । (१०) उद्यमं कुरुते ॥२१॥
'देशनामन्दिरे यत्र जाम्बूनदः, शक्रकेतुः पुरश्चुम्बति स्माऽम्बरम् । कौतुकान्नाकिलोकं "दिदृक्षुः क्षिते-स्तीर्थभर्तुः प्रसर्पन्प्रतापः किमु ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org