________________
१०२
श्री हीरसुन्दर' महाकाव्यम् 'देशनामन्दिरं श्रीजिनेन्दोः पुरो, व्यालुलोके 'वसत्यां व्रतीन्द्रस्ततः ।
आप्तमाराद्धकामेव लोकत्रयी, 'यत्र वप्रत्रयी कैतवादीयुषी ॥११॥
(१) समवसरणम् । (२) उपाश्रयमध्ये । (३) जिनम् । ( ४ ) सेवितुमभिलषन्ती । (५) त्रिलोकी । (६) प्राकारत्रिकदम्भात् । (७) आगता ॥११॥
यत्र वापीषु पश्यन्ति शंभुश्रियं, वारिदेव्यः 'स्मिताम्भोजनेत्रैरिव ।
अर्हतेव स्ववाचामृतं तर्जितं, सेवितुं तं पुनस्ताँसु संतिष्ठते ॥१२॥
(१) जिनलक्ष्मीम् । (२) जलदेवताः । (३) विकचकमलरूपैर्नयनैः । ( ४ ) जिनेन्द्रेण । (५) निजगिरा । (६) अर्हन्तम् । (७) वापीषु । (८) तिष्ठति ॥१२॥
यत्र सोपानपतिः 'शिवाढू महा-गेहमारोढुमूहेडेधिरोहिण्यभात् । 'निम्नगेत्यात्मकौलीननिर्मुष्टये, जाह्नवीवोत्तरङ्गागताऽर्हत्पदे ॥१३॥
(१) मुक्तिनाम । (२) प्रौढभवनम् । (३) निःश्रेणिका । (४) शुशुभे । (५) नीचगामिनीति निजनिन्दानिवारणाय । (६) गङ्गा । (७) उच्चैरुच्चस्तराः कल्लोला यस्याः । (८) जिनस्य चरणे स्थाने वा ॥१३॥
यत्र सृष्टैरिव श्रेयसे तोरणैः, सार्वविश्वाधिपत्याभिषेकक्षणे । येन नेतुं जनान्मुक्तिपुर्यामिवोद्घाटितैरवारैः पुनः पुस्फुरे ॥१४॥
(१) समवसरणे । (२) रचितैः । (३) कल्याणाय । (४) जिनस्य त्रैलोक्यस्य अधिपतिताया अभिषेकस्य प्रस्तावे । (५) जिनेन । (६) प्रापयितुम् । (७) मोक्षनगरे । (८) मुत्कलीकृतैः ॥१४॥
शंभुर्मुद्दिश्य मुक्तैः स्मरेणाऽऽशुगै-र्मोघेतां किं गतैरन्तरेऽवस्थितैः । 'ढौकितैरांत्मनः किं वपुर्लिप्सया, पुष्पचापेन वाऽभ्राजि 'यस्मिन्सुमैः ॥१५॥
(१) शंभुर्जिनः शिवश्च । (२) ईश्वरे वि( वै)रितया तदुद्देशेन मुक्ताः(क्तैः) । (३) कामेन । (४) बाणा:( णैः) । (५) निष्फलताम् । (६) प्राप्तैः । (७) अर्धमार्ग एव स्थितैः । (८) प्राभृतीकृतैः । (९) स्वस्य । (१०) शरीरस्य प्राप्तुमिच्छया । (११) स्मरेण । (१२) शुशुभे । (१३) समवसरणैः(णे) । (१४) कुसुमैः ॥१५॥
'धीरिमाधःकृते शीलतीव त्रपा-सङ्कचद्गौरवे स्वर्गिरौ 'विष्टरे । ' यत्र शौर्येण निर्जित्य बन्दीकृतः, श्रीजिनेनेव पञ्चाननोऽधः स्थितः ॥१६॥
१. वप्रत्रितयीकैतवात्समीयुषी हीमु० । एतत्पाठो न योग्यः प्रतिभाति, छन्दोभङ्गकारित्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org