________________
द्वादशः सर्गः
१०१ (१) कर्णपणैः । (२) आग[म]नरूपमप्रमेयममृतम् । (३) प्रमोदोपचिताः । (४) सूरिचरणकमलम् । (५) आगत्य । (६) पथिकव्रजाः । (७) विकसत्तरुम् । “स्मेरदम्भोरुहारामपवमानमिवालिन:( निलः)" इति पाण्डवचरित्रे ॥५॥
'आजगामाऽथ कम्माङ्गजन्मा यति-क्ष्मातलाखण्डलः सम्मुखं तत्प्रभोः । सूरिणाऽप्यर्णवेनेव शीतयुतेः, 'पिप्रियेऽद्वैतमस्योदयं पश्यता ॥६॥
(१) आगतः । (२) श्रीविजयसेनसूरिः । (३) समुद्रेणेव । (४) विधोः । (५) प्रमुदितम् । (६) असाधारणम् । (७) वैभवप्रादुर्भावम् ॥६॥
हीरसूरिक्रमद्वन्द्वनम्रीभव-त्तन्मुखं प्राप कामय॑नन्यां श्रियम् । 'कल्पितानल्पसख्यः कथञ्चिन्मिथः, सङ्गतः पङ्कजेनेव शीतद्युतिः ॥७॥
(१) श्रीहीरविजयहरिचरणयुगले नमनशीलं भवद्विजयसेनसूरिमुखम् । (२) असाधारणाम् । (३) शोभाम् । (४) लेभे । (५) निर्मितं मिथोऽतिशायि मैत्र्यं येन । (६) मिलितः । (७) कमलेन सार्द्धम् । (८) विधुः ॥७॥
'प्रश्नयामास भट्टारकाधीश्वरो-उनामयादि स्वयं तस्य सूरीशितुः । तेन रेजे पुनः सोऽधिकं सूनुना, यौवराज्यान्वितेनेव भूवासवः ॥८॥
(१) पृच्छति स्म । (२) श्रीहीरविजयसूरीश्वरः । (३) नीरोगताप्रमुखम् । (४) आत्मना । (५) विजयसेनसूरेः । (६) आचार्येण । (७) हीरविजयसूरिः । (८) यौवराज्ययुक्तेन । (९) पुत्रेण । (१०) भूशक्रः ॥८॥
ने( नै )ककाया-प्रणीय स्वयं दर्शयन्, द्वादशाचिः 'स्वचातुर्यमुक्मिव । शिष्यसार्था मिथो नव(व्य)काव्यैस्ततः, संस्तुवन्ति स्मै तौ सूरिशार्दूलयोः(लको)॥९॥
(१) अनेकान्देहान् विधाय । "निषेधार्थवाची( चि)नकारस्यान्नादेशो न स्यान्नैकधेत्यादौ" इति प्रक्रियाकौमुद्याम् । (२) बृहस्पतिः । (३) निजनिपुणताम् । (४) विनेयवर्गाः । (५) द्वयोः सूरीन्द्रयोः (द्वौ सूरीन्द्रौ) ॥९॥
'तत्समीक्षोत्सुकीभूतदिङ्नायके, पौरपुजैः प्रणीते महाडम्बरे ।
द्यामिवेन्द्रो जयन्तेन भट्टारक-स्तत्र सूरीन्दुना प्राविशत्पत्तनम् ॥१०॥
(१) पौरकृतमहोत्सवालोकनोत्कण्ठितीभूता दिक्पाला यत्र । (२) स्वर्गमिव । (३) शक्रः । (४) इन्द्रपुत्रेण । (५) हीरसूरिः । (६) आचार्येन(ण) ॥१०॥ 1. तौ सूरिभूभास्करौ हीमु० । 2. हीम०टीकान्तर्गतं 'निषेधार्थनकारस्यः' इति प्रक्रियाकौमुद्यद्धरणं संशोधनाहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org