________________
एकादशः सर्गः - (१) किं बहूक्तेन ? । (२) पवनपुत्रस्य-हनुमत इव । (३) स्वस्वामिनः । (४) आज्ञाम् । (५) कर्तुः । (६) न्यायवतः । (७) रामस्येव । (८) हे साहिबखान ! (९) धर्मला[भ]नाम्ना अस्माकं तवाऽऽशीरस्तु ॥१५५॥
तदुदिर्तमधिगत्य 'चित्रमन्त-र्दधता तेन पुरीपुरन्दरेण । इव कजमलिनाऽथ चुम्बता, तच्चरणयुगं यतिकुञ्जरो व्यसजि ॥१५६॥
(१) श्रीहीरविजयसूरिप्रोक्तम् । (२) ज्ञात्वा । (३) विस्मयम् । (४) मनसि । (५) खानेन । (६) कमलम् । (७) भृङ्गेन(ण) । (८) सूरिपदयुग्मम् । (९) सूरीन्द्रः । (१०) विसर्जितः ॥१५६॥
'वसतिमसुमच्चतांसीव प्रविश्य महोत्सवं
'वचनविषयातीतं स्फीतं वितन्वति पूर्जने । 'सरसिरुहभूः प्रोज्जृम्भाम्भोरुहीव सुखं स्थितः
कतिचन दिनांस्तस्मिन्सूरीश्वरोऽगमयत्पुरे ॥१५७॥ इति पण्डितदेवविमलगणिविरचिते हीरसुन्दरनाम्नि महाकाव्ये अकब्बर-साहिपुरस्तदाकारितदूतद्वन्द्वागमनविज्ञपनतत्प्रेषणाकमिपुरपतिपार्वागमनश्राद्धाकारणसूरिपार्श्वप्रस्थापनतदागमनकथनसूरिप्रस्थानशुभशकुनावलोकानाकमिपुरागमनखानसम्मुखागमनात्ममन्दिरप्रापणगजाश्वादिढौकनतन्निषेधखानचमत्कृतिकरणवसतिप्रवेशनादिदिवर्णन एकादशः सर्गः ॥११॥ ग्रन्थाग्रं २६०॥
(१) उपाश्रयम् । (२) जनमनांसीव । अत्र एकवचनस्य बहुवचनोपमाऽस्ति । रघुकाव्येऽपि "वैदर्भनिर्दिष्टमथो कुमारो नारीमनांसीव चतुष्कमन्त"रिति ।(३) अतिशायित्वाद्वाग्गोचरमतिक्रान्तम् । वक्तुमशक्यम् । (४) उपचीयमानम् । (५) विधाता । (६) स्मेरकमले । खण्डप्रशस्तौ इत्युक्तमस्ति"ताम्यंस्तामरसान्तरालवसतिर्देवः स्वयंभूरभू" दिति । (७) अहम्मदावादे ॥१५७॥
इत्येकादशः सर्गः ॥११॥ ग्रन्थाग्रं - २८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org