SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः 'स्फूर्जज्योतिर्जलदपथवद्वन्दमेतन्मणीनां मुक्तापतिस्ततिरिव सतां 'शुद्धिमत्तां वहन्ती । यानवाता यतिपशिबिकाद्या विमाना इवाऽमी वासांस्येतान्यपि सुमनसामंशुकानीव सन्ति ॥१३६॥ (१) दीप्यमाना दीप्तिनक्षत्रराजी च यत्र । (२) गगनमिव । (३) अतिनिर्मलताम् । (४) विमानशब्दः पुंक्लीबलिङ्गः । (५) देवदूष्यानीव ॥१३६॥ 'अनुगृहाण गृहाण पुरस्कृतं, त्वमिदंमन्यदपीहितमात्मनः । विफलयन्ति यतः सुजनाः सुरों-वनिरुहा इव न क्वचिदर्थनाम् ॥१३७॥ (१) अनुग्रहं कुरु । (२) अग्रे ढौकितम् । (३) पुनरन्यदपि स्वस्येप्सितं कथयित्वा गृहाण । (४) सज्जनाः । (५) कल्पवृक्षा इव ॥१३७॥ अलिकचुम्बिकराम्बुरुहद्वयः, प्रकटयन्विनयं स विनेयवत् । इदमुंदीर्य वचोव्यवहारतो, 'निववृते श्रमणाधिपतेः पुरः ॥१३८॥ (१) भालस्थलस्थायिकरकमलयुगलं यस्य । कृताञ्जलिरित्यर्थः । (२) शिष्य इव । (३) कथयित्वा । (४) वाग्व्यापारात् । (५) निवृत्तः ॥१३८॥ 'गृह्णतो गिर्रमुदीत्वरदन्त-व्रातदीधितिरभासत सूरेः । निर्गता बहिरिव प्रणिधान-क्षीरनीरधिलसल्लहरीव ॥१३९॥ (१) वदत इत्यर्थः । (२) उद्गच्छन्ती दशनवातानां कान्तिः । (३) ध्यानसमुद्रस्फुरद्वीचीव ॥१३९॥ कलिक्षितीन्द्रानिव दुर्बलश्रुती-न्वक्रीकृतास्यान् तचापलान्पुनः । 'क्षमा सकोपानिव निघ्नतस्त्यजे-दूरं तुरङ्गान्स्पृहयन्शिवश्रियः ॥१४०॥ (१) कलिकालभूपालानिव । (२) परापवादश्रृण्वतः पिशुनवचनाकर्णनपरान्, लघुकर्णान् । (३) नक्रीकृतमुखान् । परोपकारादिकरणे विमुखान् । (४) वक्रगामिनः । परदारगमनादिचापल्यभृतः । (५) पृथ्वी क्षान्तिं च । (६) कल्याणलक्ष्मी सिद्धिलक्ष्मी च ॥१४०॥ 'मदोद्धतत्वं मधुपानुषङ्गितां, मातङ्गतामांश्रयशाखिघातिताम् । यस्माद्वहन्ते नृपते ! मतङ्गजाः, सतां तदेषां ने शुभाय सङ्गमः ॥१४१॥ (१) उन्मत्तताम् । (२) मद्यपायिभिः भृङ्गैश्च सङ्गिताम् । (३) चाण्डालतां गजत्वं च । 1. ०तींश्चक्री० हीमु० । स चाशुद्धः पाठः । 2. शिवाय हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy