________________
श्री' हीरसुन्दर' महाकाव्यम्
उच्छिन्नोन्मत्तान्तरङ्गवैरिणा । ( ९ ) रम्यं कम्बलिकारूपम् । (१०) शिष्येण प्रस्तृतम् । ( ११ ) सूरिणा । ( १२ ) आश्रितम् ॥१३१॥
९४
३
'उपायनीकृत्य 'मणीहिरण्य - दुकूलदामाभरणादि भूमान् । “कृताञ्जलिः “सम्मदमेदुराङ्गः, स भृत्यवत्कृत्यविदित्युवाच ॥१३२॥
( १ ) ढौकयित्वा । (२) रत्न - स्वर्ण - क्षौम - मुक्ताहार- भूषणप्रमुखम् । ( ३) खानः । ( ४ ) कृतहस्तयोजन: । (५) हर्षोपचीयमानवपुः । ( ६ ) सेवक इव । ( ७ ) कार्यज्ञ इव ॥१३२॥ सांहिश्रीमदकब्बरावनिभुजेत्यांदिष्टमास्ते मम
द्युम्नस्यन्दनवा[ज] वारणमुखं सम्पूर्य तत्कामितम् ।
"श्रीसूरीश्वरहीरहीरविजयं सम्प्रापयेस्त्वं "ममा
ऽभ्यासं ( शं) स्वीयमिवाऽऽद्रियस्व तदिदं विश्रण्यमानं मया ॥ १३३॥ (१) अकब्बरपातिसाहिना । (२) कथितम् । (३) द्रव्य - रथा - ऽश्व-गजादिकम् । (४) सूरीणां वाञ्छितम् (५) सूरीन्द्रम् । (६) मम समीपम् । (७) आत्मीयमिव । (८) गृह्णीथ । ( ९ ) इदं प्रत्यक्षं पुरो मुक्तम् । (१०) मया दीयमानम् ॥ १३३॥
२
स्वामिन्* ! मे 'गन्धवाहा इव धृततनवः स्वान्तवेगास्तुरङ्गाः
सोदर्याः 'कज्जलाद्रेरिव मदमुदितभ्रान्तभृङ्गाः करीन्द्राः । "त्वष्ट्रेव स्वेन सृष्टा यदुपतय ईवोद्यद्रथाङ्गाः शताङ्गाः
१०
पत्तिव्राताश्च मूर्ति दधत इव रसा वीरनामान एते ॥ १३४ ॥
( १ ) वाता इव । ( २ ) मूर्तिमन्तः । ( ३ ) मनोवेगाः । ( ४ ) भ्रातरः । ( ५ ) अञ्जनगिरे: । ( ६ ) मदवारिपानेन दृष्टा अत एव परितो भ्रमन्तो भ्रमरा येषाम् । (७) विश्वकर्मणा । ( ८ ) आत्मना । ( ९ ) कृता । (१०) कृष्णा इव । ( ११ ) दीप्यमानचक्राः । चक्रम् - आयुधं रथपादश्च। उत्प्राबल्येन यच्चलद्रथाङ्गं रथपादा यत्र । * " मित्र ! ते मोदते मनः " इति वाक्यप्रकाशोक्तवाक्यादत्रापि स्वामिन्निति सम्बोधनाग्रे मे इति आदेशपदम् । विक्रमस्तुतावपि वैतालिककृतौ "स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते ! तेऽम्बुपानाभिलाष" इत्यपि दृश्यते ॥ १३४॥
स्वर्णं 'तदास्ते 'भवदङ्गिचङ्गिम-श्रीपर्द्धिशिक्षां विवितीर्षवो रुषा । निक्षिप्य वह्नौ च 'घनैर्निहत्य, च्छिन्दन्ति टङ्खैरिव यर्कलादाः ॥१३५॥
(१) श्रीमद्वपुषश्चारित्रलक्ष्मीपरिस्पर्द्धि राजते । "जिनवचनपद्धतिरुक्तिचङ्गिममालिनी "ति पद्मसुन्दरकृतिः । ( २ ) दातुमिच्छ्वः । (३) कोपेन । ( ४ ) अग्नौ । ( ५ ) घनप्रहारै: । (६) हत्वा । (७) आयसटङ्कनकैः । ( ८ ) स्वर्णकाराः ॥ १३५ ॥
1. तदेतद्भवद० हीमु० । 2 0 शिक्षावितितीर्षवो हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org