SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्री'हीरसुन्दर' महाकाव्यम् (४) पदं स्थानं ददते तेषां पुत्र-पौत्र-प्रपौत्रादिविस्तारवतां कुटुम्बभाजा तरुणां च हननशीलताम् । (५) बिभ्रते । (६) न मोक्षाय ॥१४१॥ द्यूतकृदिवाऽक्षविलस-नैरियुक्तः पिशुनवत्पुराधीश ! । *निर्वृण्यद्भिः सद्भिः, शताङ्गराशिर्न काम्येत ॥१४२॥ (१) अक्षदेवी । (२) अक्षेन रथावयवविशेषेण प्रासकैर्वा विलसन्-शोभमानः क्रीडंश्च । (३) आराः सन्त्यस्मिन्नित्यरिचक्रं तेन युक्तः, वैरिभिश्च कलितः । (४) प्रायः पिशुनानां बहवो वैरिणः । (५) मोक्षं गच्छद्भिः । (६) रथपतिः । (७) नाऽभिलष्येत ॥१४२॥ राजन् ! 'हुताशा इव हेतिभीषणाः, पुनगिरीशा इव रुद्रताङ्किताः । शान्तात्मनाार्द्रहृदां महात्मनां, नौचित्यमेते दधते पदातयः ॥१४३॥ (१) अग्नय इव । (२) हेतिभिः शस्त्रैर्ध्वालाभिश्च भयङ्कराः । (३) ईश्वरा इव । (४) रुद्रत्वेन चण्डतया युताः । (५) शमवानात्मा स्वरूपं येषाम् । (६) दयया मनो येषाम् । (७) न योग्यताम् ॥१४३॥ माद्यन्त्यष्टापदैः पृथ्वी-कान्त ! कैतवजीविनः । सन्तः 'संयमसाम्राज्या, न पुनर्नयचक्षुषः ॥१४४॥ (१) स्वर्णैः शारिफलैश्च । (२) द्यूतकाराः । (३) चारित्रस्य सम्यगाधिपत्यं येषाम् । (४) न्याय एव दृग्येषाम् ॥१४४॥ धामसाधिमभृतः कलयन्त्यः, 'स्त्रीत्वमात्मनि पुनर्वनितावत् । 'त्यक्तगेहगृहिणीद्रविणानां, प्रीणयन्ति न मनो मणिमालाः ॥१४५॥ (१) कान्तीनां चारिमाणं बिभ्रतीति, गृहेषु साधुतां दधते । (२) स्त्रियः । ( ३ ) स्त्रीलिङ्गतां वनितात्वं च । (४) मुक्तगृहस्त्रीद्रव्यानाम्( णाम् ) । (५) तोषयन्ति । (६) रत्नश्रेणी ॥१४५॥ बिभ्राणा अपि बाह्यतो 'विशदतां छिद्रं दधत्यन्तरा तेनाऽमी उचिता न मौक्तिकगणा द्वेधाऽपि शुद्धात्मनाम् । भूप ! स्तम्भजुषो जडात्मवदमी यानव्रजा वीवधै बर्बाधन्ते च परांस्ततो मतिमतामेभिर्न कृत्यं पुनः ॥१४६॥ (१) बहिः । (२) उज्ज्वलत्वम् । (३) दोषमपगुणम् । (४) योग्या । (५) अन्तर्बहिरपि । (६) निर्मलस्वरूपाणाम् । (७) स्तम्भो-जाड्यं स्थूणा च । (८) मूर्ख इव । (९) भारैः । (१०) पीडयन्ति । (११) तस्मात्कारणात् ॥१४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy