________________
८६
'श्री हीरसुन्दर' महाकाव्यम्
(१) उदयाचलरक्तोपलतले । (२) क्रीडाहंसः । (३) रक्तोत्पले । (४) सिंहशिशुः । (५)
गैरिकपर्वतशिखरे । (६) कुंराहस्तमध्ये । (७) शुशुभे ॥५०॥ हील० पूर्वा०। तस्य कुंरेभ्यस्य पाणिपल्लवतले स बाल: विलसति स्म । क इव ?। उदा(दया)चललोहितोपले
चन्द्र इव । रक्तोत्पलपर्णे क्रीडाहंस इव । धातुमये शृङ्गे सिंहबाल इव ॥५१॥ हीसुं० जन्मोत्सवं विदधता तनयस्य तेन 'कामाधिकं प्रदिशता थिजनेऽपर्थजातम् । श्रीदस्त दाव गणनां 'गमितो निकेतं १ कैलाशमूर्णि विदधे किमपत्रपिष्णुः
॥५१॥ (१) कुर्वता । (२) अभिलषितादपि अतिशयिताभ्यधिकम् । (३) ददता । (४) याचकलोकम् । (५) धननिवहम् । (६) धनदः । (७) तस्मिन् पुत्रजननमहसमये । (८) अवहेलनाम् ।(९) प्रापितः । (१०) स्थितिम् । (११) कैलाशशिखरे । (१२) लज्जाशील:
॥५१॥ हील० जन्मो० । तदा तस्मिन्समये सुतजन्मोत्सवं कुर्वता पुनरथिनामभिलि(ल)षिताधिकं द्रव्यसमूहं ददता
तेनेभ्येनावहेलितः धनदः लज्जाशीलः सन् कैलाशशिखरे गृहं कृतवान् ।।५२।। हीसुं० सूनो र्जनेर्महमसौ रविभवानुरूपं श्रीमन्महेभ्यमघवा घ'टयांबभूव ।
सञ्जातजातविधिरप्य दसीयसूनु-निद्भुतदर्पण इव 'स्फुरयांबभूव ॥५२॥ (१) पुत्रस्य जन्मनः । (२) उत्सवम् । (३) स्वद्रव्यसदृशम् । (४) व्यवहारिशक्रः (५) चकार । (६) सम्पन्नजन्मसंस्कारादिविधिः । (७) कुंराकुमारः । (८) शाणोत्तेजितात्मदर्श
इव । (९) दीप्यते स्म ॥५२॥ हील० सूनो०। असौ इभ्येन्द्रः स्वद्रव्यानुसारेण पुत्रजन्मोत्सवं रचयामास । जातजन्मसंस्कारोऽस्य सुतोऽपि
शाणोत्तेजितात्मदर्श इव चकासामास ॥५३॥
अर्थिव्रजेन' मिलितुं 'स्वककामुकेन 'सङ्केतसौधमिव 'वारिधिनन्दनायाः । 'गीतिप्रतिध्वनितनर्तितकेलिकेकि षष्ठीदिने रजनिजागरणं प्रणीय ॥५३॥ 'पातालभूतलसुरालयलोककोटी-कोटीरहीर इव बालक एष भावी । उन्नीय नीतिकृतिनान्तरितीव पित्रा सत्रा 'स्वगोत्रिभिरकारि स हीरनामा ॥५४॥
युग्मम्॥ इति जन्म ॥ (१) याचकलोकेन, साकं सङ्गं कर्तुम् । (२) निजाभिलाषुकेन । (३) सङ्केतगृहम् । (४) लक्ष्म्याः । (५) गानप्रतिशब्देन नृत्यकलिता जाता क्रीडामयूरा यत्र । (६) षष्ठीरात्रिजागरणम्
॥५३॥ 1. इति जन्मोत्सव-नामदानादि हील० ।
हीसुं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org