SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ ८५ हील० लक्ष्मी०। धनिनां नायकस्य अस्य कुंराख्यस्य पञ्चैव शाखा अङ्गलयो यस्य तादृशो हस्तः । पुत्रप्रसवलक्षणं प्रचुरं मधु कथयद्भिः सेवकसमूहैर्दानसमये देवतरुरिव सहस्रं शाखा यस्य तादृशो ददृशे-दृष्टः ॥४७|| हीसुं० १आसाद्य तत्प्रसववेश्म समं सगोत्रैः सूनो रतृप्ति स "पिबन्वदनारविन्दम् । ६अद्वैतसम्मदपरम्परया लिलिङ्गे “लक्ष्म्या पुमानिव पचेलिमपुण्यशाली ॥४७॥ (१) प्राप्य । (२) तस्या नाथीदेव्याः सूतिकागृहम् । (३) स्वजनैः । (४) न विद्यते तृप्तिः सौहित्यमत्यादरतया यत्र । (५) सादरं पश्यन् । (६) असाधारणप्रमोदपरम्परया । (७) आश्लिष्टः । (८) परिपाकं प्राप्तेन सुकृतेन शोभमानः पुमान् यथा श्रिया आश्रीयते ॥४७॥ हील० आसा० । तस्य पुत्रस्य प्रसववेश्म सस्वजनैः सह प्राप्य । स अतृप्ति यथा स्यात्तथा सूनोः पुत्रस्य मुखकमलं सादरमवलोकयन् । न विद्यते द्वैतं-युगलं येषां तादृशानां असाधारणानां प्रमोदानां परम्परया आलिङ्गितः । यथा परिपाकप्राप्तेन उदयावलिकायामागतेन पुण्येन शालते, तादृशः पुरुषः लक्ष्म्या आश्रीयते ॥४८॥ हीसुं० 'तस्याङ्गजास्यशशिदर्शनोऽम्बुराशे-रामिवोल्लसदमन्दमुदामियत्ताम् । रहृत्सद्मसूत्रितजगत्त्रयविस्तरापि "विज्ञावली प्रभुरभून्न तदा प्रमातुम् ॥४८॥ (१) स्वसुतवदनचन्द्रावलोकनात् । (२) समुद्रस्य जलानामिव प्रकटीभवन्तीनाममेयानां मुदां प्रमदानां इयत्परिमाणत्वं एतावन्मात्रताम् । (३) मनोमन्दिरे गोचरीकृतस्त्रैलोक्यप्रपञ्चो यया त्रिभुवनस्वरूपवेदनविदुरापि । (४) निपुणश्रेणिः ॥४८॥ हील० तस्या०। पुत्रस्य आस्यमेव चन्द्रस्तदर्शनतस्तस्य कुंरेभ्यस्य उल्लसन्तीनां प्रचुराणां मुदां हर्षाणां __ इयत्तां प्रमातुं हृदेव सद्मनि गृहे सूत्रितः विज्ञातः जगत्त्रयस्य विस्तरो यया तादृशी पण्डितश्रेणी प्रभुः समर्था नाभूत् । यथा चन्द्रदर्शनतः समुद्रस्य वारां इयत्ता न कोऽपि वक्ति ॥४९।। हीसुं० आस्वादयन्ल'वणिमामृतमेतदास्या-वश्यायभासि वसतिं 'गवि चानुतिष्ठन् । पश्यन्सुतं द्युसदिवाजनि निर्निमेष-नेत्रारविन्दयुगलः स महेभ्यकुम्भी ॥४९॥ (१) पिबन् । (२) लावण्यसुधारसम् । (३) नन्दनवदनचन्द्रे । (४) स्थितिम् । (५) भुवि दिवि च । (६) देवः । (७) मेषोन्मेषरहितनयनकमलः ॥४९॥ हील० आस्वा०। स इभ्यहस्ती सुतं पश्यन् सन् स्वर्वासीव मेषोन्मेषरहितनयनकमलयुगलो जातः । किं कुर्वन् ?। एतस्यास्यमेवावश्यायस्य तुहिनस्य भाः कान्तिर्यस्य तस्मिश्चन्द्रे लावण्यसुधां पिबन् । पुनर्गवि भूमौ स्वर्गे वा वासं कुर्वन् । इदं देवलक्षणम् ॥५०॥ हीसुं० पूर्वाद्रिपाटलशिलावलये शशीव लीलामराल इव कोकनदच्छदे वा । *पारीन्द्रपोत इव 'गैरिकशृङ्गिशृङ्गे तत्पाणिपल्लवतले विललास बालः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy