SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् चण्डता तया विशेषेण परिभूतः सूर्यो येन । चक्रवर्त्यायुधविशेषस्य । (२) कुंराख्यः । (३) तदीयसेवकलोकपङ्क्तिभिः । (४) उत्कण्ठिताभिः । (५) वद्धितः । (६) जन्मना । (७) पुत्रस्य ॥४३॥ हील० चक्र० । उत्सुकाभिः स्वसेवकश्रेणिभिः कुंराव्यवहारी पुत्रजन्मना वर्धाप्यते स्म । यथा चक्रस्योत्पत्या चक्री वर्धाप्यते । किंभूतस्य सूनोश्चक्रस्य च ?। उदयनशीला दीपनशीला या दीप्तयस्तासां यः प्रसरसमूहस्तस्य चण्डिमभिरुग्रताभिर्विखण्डितश्चण्डभाः सूर्यो येन तस्य ॥४४॥ हीसुं० सूनो र्जनेरुप'नतेरिव सेवधीना- मुद्गत्वरा स्वजनवक्त्रसुधाकरेभ्यः । वर्णान्स्व कर्णपुटकेन "सुधायमाना-न्पीत्वा तदा प्रमुमुदे हृदये महेभ्यः ॥४४॥ (१) पुत्रजन्मनः । (२) आगमनमिव । (३) निधीनाम् । (४) प्रकटनशीलान् । (५) बन्धुजनवदनचन्द्रेभ्यः । (६) श्रवणपर्णेन । (७) अमृतमिवाचरतः । (८) सादरं श्रुत्वा । ॥४४॥ हील० सूनो० । स्वजनाननचन्द्रेभ्यः निसृतान् सुधासमानान् पुत्रजन्मनः वर्णान्, कर्ण एव पुटक:-पत्रभाजनं, तेन सादरं श्रुत्वा तस्मिन्समये महेभ्यः जहर्ष । कस्या इव ? । उपनतेरिव । यथा सेवधीनां नवनिधानानां स्वर्णरत्नमाणिक्यानामुपनतेरानमनस्य वर्णान् श्रुत्वा कश्चित्पुमान्मोदते ॥४५।। हीसु०- सूनोर्जनिं 'निगदतामनुगव्रजाना-मासीददेयमिह तस्य 'किरीटमेव । ५भूभर्तृभावककुदं विशदातपत्रं धात्रीपतेरिव मुदं दधतो "हृदन्तः ॥४५॥ (१) कथयताम् । (२) सेवकनिकराणाम् । (३) दातुमयोग्यम् । (४) मुकुट एव । (५) राजत्व चिह्नम् ।" नृपतिककुदं दत्वा यूने सितातपवारणम्" इति रघुवंशे । (६) श्वेतच्छत्रम् । (७) हृदयमध्ये ॥४५॥ हील० सूनो० । पुत्रजन्म कथयतां सेवकगणानां अदेयं तस्य कुंरेभ्यस्य मुकुटं आसीत् । यथा पृथ्वीपते राजचिह्न छत्रं दातुमनहँ स्यात् ।।४६।। हीसुं० 'लक्ष्मीवतामधिपतेरनुजीविवृन्दैः "पुत्रप्रसूतिममितं "मधु निर्दिशद्भिः । पाणि: "प्रदेशनविधौ ददृशेऽस्य “पञ्चशाखोऽपि लेख शिखरीव सहस्रशाख: ॥४६॥ (१) श्रीमताम् । (२) व्यवहारिणां मध्ये अधिपतिरिवाधिपतिर्मुख्य इत्यर्थः । (३) अनुचरनिकरैः । (४) नन्दनजन्म । (५) प्रमाणरहितं मधु माध्वीकम् । “अमितं मधु तत्कथा ममे'' ति नैषधे । (६) कथयद्भिः । (७) दानप्रकारे । (८) पञ्चमिता: शिखा अङ्गलयश्च । (९) कल्पतरुः । (१०) सहस्त्रसङ्ख्या शाखा यत्र ॥४६॥ 1. इति पत्रवर्धापनि[का]-दानादि हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy