SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८७ तृतीयः सर्गः ॥ (१) त्रिभुवनजनकोटिमुकुटे हीरक इवैष भविष्यति । (२) विचार्य । (३) न्याये चतुरेण । (४) स्वस्वजनैः समम् ॥५४॥ हील० पातालपृथ्वीस्वर्गवासिकोटीनां मुकुटेषु नगीनो इव एव बालो भावी इति अन्तश्चिते विचार्य स्वस्वजनैः सत्रा-समं पित्रा स बालः हीरनामा कृतः । किंकृत्वा ?। पद्यां गीतानां प्रतिशब्दैनर्तिताः क्रीडार्थं मयूरा यत्र तादृशं रात्रिजागरणं निष्पाद्य । उत्प्रेक्ष्यते । लक्ष्मीकामयिता याचकचक्रेण समं अब्धिपुत्र्याः मिलितुं सङ्केतः । अमुकस्मिन् त्वया समेतव्यं मयापि तत्र समागंस्यते इति यूनो युवत्याश्च सङ्केतस्तस्य गृहम् ॥५४-५५।। हीसुं० 'पूर्वापराम्बुनिधि बन्धुरमेखलाया भूमेः सभञ्जुरु चितैः समभूषि 'चिद्वैः । 'दानानुकम्पनसभाजननीरसिक्त-प्राचीनपुण्यविटपिप्रसवैरिवैतैः ॥५५॥ (१) प्राची-प्रती[ ची ]सागर एव सुन्दरा काञ्ची यस्याः । (२) योग्यैः । (३) अलङ्कृतः। (४) सामुद्रिकलक्षणैः । (५) दान-दया-पूजारूपैर्जलैरभिषिक्तस्य प्राक्तनजन्मप्रणीत पुण्यद्रुमस्य पुष्पैः ॥५५॥ हील० पूर्वा-प्राची अपरा-प्रतीची सृष्टिभ्रमणेन पूर्वस्या दक्षिणां गमनाद्दक्षिणा गृहीता पश्चिमाया उत्तरस्यां इति उत्तरा गृहीता । तासां जलधय एव रम्या मेखला यस्यास्तादृश्या भूमेर्भर्तुश्चक्रिणः योग्यैश्चितैरलङ्कृतः । उत्प्रेक्ष्यते । दान दया पूजारूपैर्नी रैः सिक्तः प्राक्तनपुण्यवृक्षस्तस्य पुष्पैः । "प्रसवश्च मणीचक" मिति हैम्याम् ।।५६।। हीसुं० सज्ञाति लोचनचकोरनिपीयमानै र्ला'वण्यचञ्चदमृतैरुपचीयमानैः । ___ वृद्धिं दधार पृथुकोऽ"प्रतिमैः प्रतीकै-'द्वैतीयकेन्दुरिव सान्द्रकलाकलापैः ॥५६॥ (१) स्वजननयनचकोरकैरास्वाद्यमानैः । (२) लावण्यपुण्यसुधारसैः । (३) पुष्टिं प्राप्नुवद्भिः। (४) बालः । (५) असाधारणैः । (६) अवयवैः । (७) श्वेतपक्षद्वितीयासम्बन्धिचन्द्र इव ॥५६॥ हील० सज्ञा०। स्वजनानां नेत्राण्येव चकोरास्तैरतृप्तमालोक्यमानैः । पुनर्लावण्यान्येव चञ्चन्ति अमृतानि तैः पुष्टिं नीयमानैरनुपमावयवैः पुष्टिं धत्ते स्म । यथा द्वितीयेन्दुः कलाभिरेधते ॥५७।। हीसुं० 'पित्रोर्मनोरथगणान्कुटजावनीजा-२न्प्रावृट्पयोद इव "पल्लवयन्कुमारः । उत्सङ्गयोरुदलसत्कलयन्विलासं "फुल्ललता विटपयोरिव के लिकीरः ॥५७॥ आनन्दमेदुरितमानसपद्मचक्षु-रङ्कान्तरं परिचरन्स' महेभ्यसूनुः । ३अभ्राभ्रिकान्तरमिवा भकभानुमाली कस्तूरिकामृगशिशु विपिनान्तरं वा ॥५८॥युगम्म्॥ 1. धिमञ्जल हीमु० । 2. ०फलदयोरिव हीमु० । 3. हीसुप्रतो ५७-५८ इति श्लोकद्वयं युग्मतया निदिष्टम् । हीलप्रतौ तु ५८-५९ इति श्लोकद्वयं युग्मतयोल्लिखितम् । तत्र च तथैव च लघुटीकापि ५८-५९ पद्ययोः सहैव दृश्यते । अथ ५९तमं पद्यं हीम० नास्ति। किन्तु, बृहट्टीकायां (हीमु०) ५९तमपद्यस्य टीका विद्यते, इति ज्ञेयम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy