________________
'श्री हीरसुन्दर' महाकाव्यम् (१) मातृतातयोः । (२) नीपतरून् । (३) वर्षाकालसम्बन्धी मेघ इव । (४) क्रीडां कुर्वन् । (५) विकचवल्लीद्रुमयोः । (६) क्रीडाशुकः ॥५७॥ (१) हर्षेण पुष्टीभूतमनसां कान्तानामुत्सङ्गान्तरम् । (२) सेवमानो हीरकुमारः । (३)
मेघवार्दलिकामध्यम् । (४) बालसूर्यः । (५) वनान्तरम् ॥५८॥ हील० यथा नीपाः मेघः पल्लवयति तथा मनोरथ-पल्लवयन्बाल: मातृपित्रोः क्रोडयोः क्रीडां कुर्वन् उल्लसति
स्म । यथा फुल्लतोर्वल्लीव तयोरुत्सङ्गे क्रीडार्थं शुकः उल्लसति ।।*५८।। हीसु० विन्ध्योपलान्तरमिव 'द्विरदेन्द्रबालश्चुतद्रुमान्तरमिवार्भककाकपुष्टः ।
"स्मेराम्बुजान्तरमिव भ्रमर स्तरङ्गोत्सङ्गान्तरं च 'कलहंस इवाबभासे ॥५९॥ (१) विन्ध्याचलशिलान्तरम् । (२) करिकलभः । (३) सहकारवृक्षान्तरम् । (४) कोकिलबालः । (५) विकचकमलान्तरम् । (६) भृङ्गः । (७) मानससरसः परसरसो वा
कल्लोलान्तरम् । (८) हंसशिशुः ॥५९॥ हील० आनन्देन पुष्टं मानसं यासां तादृशामम्बुजाक्षीणां क्रोडान्तरं भजन् स बालो भाति स्म । यथा
डिम्भद्युमणिर्मेघस्य वईलिकान्तरं भजन शोभते । कस्तूरीहरिणो वनान्तरमिव । गजशिशुजलबालकशिलान्तरमिव । बालकोकिलो माकन्दान्तरमिव । भ्रमरः विकसित्कमलान्तरमिव । हंसः
तरङ्गाना(णा)मुत्सङ्गान्तरं भजन्भाति ।।५९-६०॥ हीसुं० 'स्व'र्णादिशृङ्ग इव चन्द्रिकयाऽनुविद्धः कायः शिशोर्विक चगन्धफली विलासी।
"सञ्चारिचन्द्रमलयद्रुमसान्द्रपङ्केलिप्तः कयाचन चकोरदृशा चकासे ॥६०॥ (१) मेरुशिखरमिव । (२) चन्द्रज्योत्स्नया । (३) व्याप्तः । (४) विकसितचम्पककलितः । "कृतां विधोर्गन्धफलीबलिश्रिय'' मिति नैषधे । (५) सञ्चरणशीलं मध्ये मिश्रीभूतं कर्पूर
यत्र एवंविधचन्दनतरोः स्निग्धद्रवैः ॥६०॥ हील० स्व०। विकसिता या गन्धफलं(ली) चम्पकपादपस्तद्वद्विलसतीत्येवंशीलो, गौराङ्ग इत्यर्थः । शिशुकाः
कयाचित्स्त्रिया प्रसरणशीलो यत्र तादृशैः चन्दनद्रवैर्लिप्तः रेजे । यता चन्द्रज्योत्स्नया व्याप्तो मेरुशृङ्गः
शोभते । 'शृङ्ग'शब्दः पुत्रपुंसके ॥६१॥ हीसुं० 'नीलांशुकाकलितबालककामपाल-मूर्तेरिवोपमितिमानयितुं कुमारे ।
काचित्कदाचन 'कुरङ्गमदाङ्गरागं कौतुहले न ] "कुरुविन्ददती 'ततान ॥६१॥ (१) विनीलवसनसंयुतकुमारावस्थालङ्कृतबलभद्रस्य कायस्य उपमानं स्वाभाविकसुवर्णगौरे कुमारे । (२) कस्तुरिकाया विलेपनम् । (३) कुतुकात् । (४) पद्मरागमणयस्तद्वद्दन्ता यस्याः। "को दर्शयेत्स्वां कुरु विन्दमालाम्", "चित्ते कुरुष्व कुरुविन्दसकान्तदन्ति"
"अग्रान्तशुद्धशुभ्रवृषभवराहेभ्यश्चे" ति दन्तस्य दद्वा इति नैषधीयं पदद्वयं चकार । 1. स्वर्णेऽद्रि० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org