SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ ८१ हीसुं० 'श्यामीकृतानि 'कुदृशामपकीर्तिपकै-रस्मन्मुखानि विशदानि "विधास्यते यत् । एष "स्वकीर्तिविलसत्रिदशस्त्रवन्ती-विस्फूतिभिष्कि(: कि)मिति 'दिक्प्रमदाः प्रसेदुः ॥३३॥ (१) मलिनीकृतानि । (२) पाखण्डिकुकीर्तिकर्दमैः । (३) निर्मलानि । (४) करिष्यति । (५) निजयशःप्रसरगङ्गाप्रवाहैः । (६) दिगङ्गनाः । (७) प्रसन्नीबभूवुः ॥३३॥ हील० श्या० । दुर्वादिनां अपयशोभिरेव कर्दमैरस्माकं दिशां मुखानि श्यामीकृतानि स्वकीतिरेव विलसद्गङ्गाया विलासैरुज्ज्वलानि । एषः विधास्यते । किमिति कारणादेव दिगङ्गनास्तज्जन्मसमये प्रसन्नीबभूवुर्निर्मला जाताः ॥३३॥ हीसुं० भावी यदेष पृथुकः सुमनोनिषेव्य-स्तरष्टियो दिव इतीव गृहे निपेतुः । . हन्ता यतः स 'तमसां 'तमसामिवारि: प्रागेव तैष्कि(: कि)[ मि ]ति भी[ ति ] वशात्प्रणेशे ॥३४॥ (१) भविष्यति । (२) सुमनोभिर्देवैः पर्युपासनीयः । (३) तेषां सुमनसां पुष्याणां वृष्टयो वर्षणानि । (४) पापानामन्धकारणां च । (५) रविरिव तद्वपुप्रभाभिरेव । (६) तैर्ध्वान्तः । (७) प्रणष्टम् ॥३४॥ हील० भावी० । यद्यस्मात्कारणात् एष बालकः सुमनोभिर्देवैरुपास्यो भविष्यति । किमितीव गृहे तेषां सुमनसां पुष्पानां(णां) वृष्टयः पतिताः । यतः स पृथुक: तमसां अरि: सूर्य इव तमसामज्ञानानां पापनां हन्ता भावीति इव तदृहे वपुर्भाभिः पूर्वमेव भयात्तमोभिः पलायितम् ॥३४॥ हीसुं० 'लब्धि'श्रिया नुसरता वसुभूतिपुत्रं सारुप्यमाक लयता च युगप्रधानैः । जज्ञेऽचिराद्यदमुना विभुना ममान्तः-प्रीत्येत्यनृत्यदिव शांभवशासनश्रीः ॥३५॥ (१) क्षीराश्रवादिलब्धीनां लक्ष्या । (२) अनुकुर्वता । (३) गौतमम् । ( ४ ) सादृश्यम् । (५) बिभ्रता । (६) वज्रस्वाम्यादिभिः । (७) जिनशासनश्रीः ॥३५॥ . हील० लब्धि० । लब्ध्या गौतमं अनुकुर्वता । पुनर्वज्रस्वाम्यादिभिः सादृश्यं बिभ्रतामुना मम शासनश्रिया स्वामिना जातम् । इतीव तीर्थकृच्छासनश्रीरनृत्यत् ।।३५।। हीसुं० विश्वत्रयीश्रुतिपुटैकवतंसिकाना-मस्माकमेष समजायत वासवेश्म । गाम्भीर्यधीरिममुखाभिरधः कृतेन्दु-श्रीभिश्च वल्गितमितीव गुणावलीभिः ॥३६॥ (१) त्रैलोक्यलोककर्णाद्वैतोत्तंसानाम् । (२) वासार्थसदनम् ।( ३ ) तिरस्कृत्शशाङ्कलक्ष्मीभिः । "विदर्भपुत्रीश्रवणावतंसिका" इति नैषधे ॥३६॥ 1. लब्ध० हीमु० । 2. गम्भीर० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy