________________
८०
'श्री हीरसुन्दर' महाकाव्यम् (१) त्रीणि जगन्ति ३ (गो)त्रशैला: सप्त( अष्टौ ) कुलाचला ७(८) बाणाः पञ्च ५ सूर्यः
मितिसंवत्सरे । (२) मार्गशीर्षस्य । (३) श्वेतलक्ष्मीम् । (४) हीरकुमारस्य जन्मनः प्रभावादिव। विक्रमावनिशक्रवर्षात् संवत् १५८३ वर्षे मार्गशीर्षसितनवम्यां तिथौ सोमवासरे पूर्वभाद्रपदनक्षत्रे हर्षणघटी १२ उपरान्तवज्रयोगे तद्दिने प्रह्लादनपुरवास्तव्य औकशवंश्य साहकुंरापत्नी नाथी सुतरत्नमजीजनत् ॥२८॥ (१) हीरकुमारभाग्याभ्युदयस्य कल्याणस्य वा कथयितरि । (२) चक्रवर्तिजन्मयोग्ये । (३) दिने । (४) साधि[ म्ना] श्रीरम्यत्वेन सहिते नक्षत्रयोगे । “त्वयादृतः किन्नरसाधिमभ्रमः" इति नैषधे । (५) गङ्गा । (६) कार्तिकेयम् । (७) शची ॥२९॥ (१) परिमलम् । (२) पद्मिनी । (३) बुधम् । (४) रोहिणी (५) विद्युद्वलयम् । (६) मेघमाला । (७) "पृथ्वीव पुण्यतीर्थ' मिति चम्पूकथायाम् । (८) सर्वसस्या भूः ॥३०॥ (१) चन्द्रम् । (२) क्षीरसागरवेला । (३) सिंही गजारिस्त्री । (४) जगज्जागरणम् । (५) प्रभातश्री: । (६) चन्दनतरुम् । (७) मलयाद्रिभूः ॥३१॥
(१) स्मरम् । (२) लक्ष्मीः । (३) विश्वविजयश्रीः । (४) सुरसूरिहस्पतिं नक्षत्रम् ॥३२॥ हील. लग्नं० । आरभ्य सप्तभिः कुलकम् । गुरौ कैतौ च मिथुनलग्नं शीलति सति तथा मङ्गले कन्यां
भजति सति । यथा विट: कुमारिकां भजते । पुनर्बुधे शुक्रे च तुलां प्राप्ते । पुनः सूर्ये अलौ विलासिनी । यथा सारसः आल्या श्रेण्या कृत्वा यो विलासो गमनमासनं च तत्र स्वभावो यस्य तादृशो भवति । पुना राहौ पुण्यवानिव धनं प्रपन्ने । पुनश्चन्द्रे मकराश्रिते सति । यथा मकरध्वजो मकराश्रितो भवति । पुनः शनैश्चरे अदीनं मीनं मदयति सति । यथा पानीयं मत्स्यं समदं कुरुते । इत्थममुना प्रकारेण तस्या यस्याभ्युदयं वहति । तादृशेषु ग्रहेषु सत्सु विक्रमादित्यात् १५८३ संवत्सरे सहस्य मार्गशीर्षस्य जन्मप्रभावादिव उज्ज्वलायां नवम्यां तिथौ सत्यां शुभकथके मिथुनलग्नोदये सति । पुनश्चक्रवर्तिनो जन्मनोऽवतारस्योचिते योग्ये अहनि वासरे सति । पुनः कस्मिन्सति ?। सह साधिम्ना प्रधानत्वेन वर्तते तादृशे धिष्ण्यस्य नक्षत्रस्य योगे सति नाथी नन्दनं प्रासूत इति सम्बन्धः ।
अथोपमानोन्येवाह-केव ?। कूलङ्कषेव । यथा मखभुजां देवानां कूलङ्कषा नदी गङ्गा केकिमानं स्वामिकार्तिकं जनयतीति सर्वत्र योज्यम् ॥ १ ॥ पुनः केव ? । आखण्डलामृतमयूखमुखीव । यथा आखण्डलस्य शक्रस्य शक्रस्यामृतमयूखमुखी पीयूषकान्तिवक्त्रा चन्द्ररवदना इन्द्राणी जयन्तनामानमङ्गजं सूते ॥ २ ॥ विकस्वरा कमलिनी परिमलं यथा सूते ॥३॥ यथा शीतकान्तेश्चन्द्रस्य पत्नी पञ्चाचिषं बुधं सूते ॥४|| पुनर्मेघमाला विद्युन्मण्डलमिव ॥५॥ पृथ्वी श्लाघनीयं तीर्थं शत्रुञ्जयादि सुते ॥६|| सर्वसस्या पृथ्वी कर्षणमिव ।।७॥ क्षीराब्धिश्चन्द्रमिव ।।८।। गजानां रिपोः केसरिणः स्त्री सिंहम् ॥९।। दिनाननस्य प्रभातस्य श्रीर्जगतो जागरणं सूते ॥१०॥ पुनर्मलयाचलधरा चन्दनद्रुमं सूते ॥११॥ नीरजं ब्रह्मोत्पत्तिकमलं नाभौ यस्य कृष्णस्य स्त्री लक्ष्मी: कामं सूते ।।१२।। यथा जगत्या भूमेर्जयलक्ष्मी राज्ञः प्रतापं सूते । यथा पूर्वाफाल्गुनीनक्षत्रं यज्ञांशभोजिनां देवानां गुरुं बृहस्पति सूते ॥१४।। तद्वन्नाथी क्रमेण सूतमजीजनत् ।। २६* -३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org