________________
७९
तृतीयः सर्गः ॥ हीसुं० 'लग्नं गुरौ शिखिनि "शीलति युग्मगेही भूमीभवे भजति खिड्ग इवाथ कन्याम् ।
याते तुलां सितमरीचिसुते सिते च “सूरेऽपि सारस इवालिविलासशीले ॥२६॥ राही 'पुनः सुकृतिनीव धनं प्रपन्ने पाथोनिधाविव "विधौ ‘मकराश्रयेव । "मीनं शनौ मदनवन्मदयत्यदीन मित्थं 'ग्रहेषु तदयाभ्युदयावहेषु ॥२७॥ 'विश्वावनीधर ८शिलीमुख ५ पूष १५८३ संख्ये संवत्सरेऽध्वनिपुरन्दरविक्रमार्कात् । मास: सहस्य विशदश्रियमाश्रयन्त्यां "जन्मानुभावत इवास्य तिथौ नवम्याम् ॥२८॥ लग्नोदयेऽस्य 'शुभशंसिनि सार्वभौम-जन्मोचितेऽहनि 5 "ससाधिमधिष्ण्ययोगे। कूलङ्कषा' मखभुजामिव केकियान-माखण्डलामृतमयूखमुखी जयं वा ॥२९॥
आमोद मम्बुरुहिणीव विजृम्भमाणा पञ्चार्चिषं "शुचिमरीचिचकोरचक्षुः । “सौदामनीवलय मम्बुदमालिकेव पृथ्वीव तीर्थमनघं 'कृषिमुर्धरेव ॥३०॥ 'पीयूषकान्तिमिव दुग्धपयोधिवेला सिंहं महामृगरिपोरिव वा महेला । "विश्वावबोधमिव 'वासरवक्त्रलक्ष्मी: श्रीखण्डसालमिव वा मलयाचलोवी ॥३१॥
श्रृङ्गारयोनिमिव नीरजनाभपत्नी राज्ञः प्रतापमिव वा जगतीजयश्रीः ।। ४आचार्यमध्वरभुजामिव फाल्गुनी सा नाथी क्रमेण तनयं जनयां बभूव ॥३२॥
[सप्तभिः कुलकम् ] (१) मिथुनलग्ने तनुभवनम् । (२) बृहस्पतौ । (३) केतौ च । (४) सेवमाने । (५) विट इव मङ्गले कन्याराशिं कुमारी च भुञ्जाने । (६) तुलाराशिम् । (७) चन्द्रसुते । बुधे शुक्रे च गते सति । (८) सूर्येऽपि । (९) पुनः सारसपक्षीव अलौ वृश्चिकनामराशौ श्रेण्या च कृत्वा यो विलासस्थितिर्गमनं तत्र शीलं स्वभावो यस्य ॥२६॥ (१) कृतसुकृते पुंसीव राहौ । (२) धनं राशि द्रव्यं च । (३) प्राप्ते । (४) समुद्र इव । (५) चन्द्रे । (६) मकराणां मत्स्यविशेषाणामाश्रयः । मकरराशेराश्रयो यस्य । (७) कन्दर्प इव शनैश्चरे मीनं मत्स्यं मीनराशिं च मदयति सति । (८) इत्थममुना प्रकारेण । (९) जन्मसमयग्रहेषु ।(१०) तस्य हीरकुमारस्य शुभकर्मणः पुण्यस्य अभ्युदयस्य करेषु( कारकेषु) सत्सु । इति जन्मकुण्डलिका ॥२७॥
1. नाम होमु० । 2. सलिल० हीमु० । 3. इति जन्मकुण्डलिकाग्रहाः हीलः । 4. येऽथ हीमु० । 5. ०ससाधिमधिष्ण्ययोगे । विक्रमात्संवत् १५८३ वर्षे मार्गशीर्षसितनवम्यां सोमवासरे पूर्वभद्रपदनक्षत्रे हर्षणनामयोगे घटी १२ उपरांत वज्रयोगे मिथुनलग्ने तद्दिने प्रह्लादनपुरवास्तव्य-ओकेशवंश्य सा कुंरापत्नी नाथी सुतमजीजनत् हील० । 6. चकार हीमु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org