SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७८ 'श्री हीरसुन्दर' महाकाव्यम् विकसनशीलायाः कुमुदिन्याः मुकुलयुगलं क्षणं क्षणं बहलैर्मकरन्दै सम्पूर्यते । किंकुर्वत्यास्तस्याः कैरविण्याश्च ?। विशदिम्नः सतीत्वेन निर्मलताया श्वेततायाश्च शोभां लक्ष्मी वा धरन्त्याः ।।२२।। हीसु० 'दम्भोलिभूषणभरोद्भवदंशुचाप- चक्राङ्कितेन पयसा परिपूरितेन । आदीयते किमु समुन्नमता चकोर-चक्षुः पयोधरयुगेन पयोधरश्रीः ॥२३॥ इति कपोलस्तनादिपाण्डिमा ।। (१) वज्ररत्नाभरणनिकरोद्भूतं किरणैः । प्रारब्धधनुर्मण्डलकलितेन । “उल्लसन्मयुखतें (म )ञ्जरीरचितेन्द्रचापचक्राण्याभरणानि" इति चम्पूकथायाम् “वृता विभूषामणिरश्मि कार्मकै"रिति नैषधे । (२) गहीता । (३) स्तनद्येन । (४) मेघलक्ष्मीः ॥२३॥ हील० दम्भो० । चकोरलोचनायाः स्तनद्वयेन । किमुत्प्रेक्ष्यते । मेघश्रीगुह्यत इव । किंभूतेन पयोधरयुगेन ?। वज्ररत्नघटिताभरणौघात्प्रकटीभवन्तः अंशवस्तेषां यद्धनुर्मण्डलं तेनाङ्कितेन । पुनीरेण दुग्धेन च पूरितेन । पुनरुन्नतेन ॥२३॥ हीसु० 'सा पूर्णचन्द्रवदना 'प्रसवोन्मुखत्वं पूर्णेऽथ गर्भसमये बिभरांबभूव । वर्षाभिमुख्यमुपकण्ठवितिष्ठमान-ज्येष्ठोन्मुखीकृतजनाम्बुदमण्डलीव ॥२४॥ (१) गर्भजनने सन्मुखत्वम् । (२) वर्षणं वर्षा तस्या आभिमुख्यं सन्मुखताम् । (३) समीपे स्थिता वृद्धा स्त्री ज्येष्ठमासश्च यस्या उत्कण्ठां नीताः स्वजनादिविश्वलोकाश्च यया कादम्बिनी ॥२४॥ हील० सम्पूर्णचन्द्रवक्त्रा प्रसवस्य सम्मुखतां धारयामास । यथा मेघमाला वर्षणं वर्षः वृष्टिस्तस्य सम्मुखतां धत्ते । किंभूता सा कादम्बिनी च ?। उपकण्ठे समीपे वितिष्ठमानाः स्थितिं कुर्वाणा: ज्येष्ठाः कुलवृद्धस्त्रियो ज्येष्ठमासश्च यस्याः । पुनरुन्मुखीकृताः सन्तानावलोकनार्थ-मुत्कण्ठीकृता उच्चमुखाश्च कृतास्तादृशा जना स्वजना विश्वलोकाश्च यया ॥२८॥* हीसु० 'वंश्यैः सुधाशनचिकित्सकयोरिवार्भ-भृत्याविनिम्मितिविशारदतां दधानः । ४अध्यूषिरेऽखिल भिषग्वृषभैर्महेभ्य-जम्भद्विषद्भवनगर्भभुवः प्रदेशाः ॥२५॥ (१) देववैद्ययोर्दश्रयोर्वशे गोत्र उत्पन्नैरिव । (२) बालकानां चिकित्साकरणे पाण्डित्यम् । (३) दधद्भिः । (४) अध्यूषिरे आश्रिताः । (५) प्रधानवैद्यैः । (६) कुंराव्यवहारीन्द्र गृहमध्यभूभागाः ॥२५॥ हील. वंश्यै० । बालकस्य भृत्यायाः करणे पाण्डित्यवद्भिद्यैस्तस्य कुंरागृहस्य मध्यभूमेः प्रदेशा आश्रिताः । उत्प्रेक्ष्यते । देववैद्ययोर्वंश्यैः ॥२५॥ 1. सम्पूर्णचन्द्र० हीमु० । 2. भूत्या० हीमु० । 3. इति प्रसवसमय: हील० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy