________________
७७
तृतीयः सर्गः ॥ समेत सुरैः स्वकरैर्गृहीतपद्माम् । (४) स्वर्गङ्गाम् ॥१८॥ हील० तया भूषणैर्वपुर्न भूषितम् । कस्मात् । खेदस्याविर्भावात् । तच्चाह - अहं एवं जाने क्रीडयागता
ये देवास्तेषां करैश्चण्टिताम्बुजां देवनदी अनुकर्तुम् ॥१८॥ हीसु० रेजे 'स्तनान[ न विनीलिममञ्जुलेन यस्याः समुज्ज्वलपयोधरयामलेन ।
केलीकृते मरकताङ्कितसानुनेव रौप्येन(ण) शैलयुगलेन मनोभवस्य ॥१९॥ (१) चूचुककृष्णता चारुणा । (२) पाण्डुरस्तनद्वन्द्वेन । (३) क्रीडार्थम् । (४)
नीलरत्नशिखरेण । (५) रजतपर्वतद्वन्द्वेन ॥१९॥ हील० रेजे० । चूचुकश्यामत्वेभ मनोज्ञेन यस्याः स्तनद्वयेन रेजे । उत्प्रेक्ष्यते । कामस्य मरकतशिखरेण
रजतशैलेनेव ॥१९॥ हीसुं० 'यस्याः समेचकिमच्चू( चू)चुकिचञ्चु रेण व्यभ्राजि शुभ्रिमभृता स्तनयोर्द्वयेन ।
श्यन्मानसाश्रयनिवासिरतीशरत्यो-विद्मो विनोदमधुपाङ्ककुमुद्युगेन ॥२०॥ 'प्रेम्णा 'प्रणेतमजरामरातां "प्रसद्य 'विश्राणितेन विधिना कुसु'मायुधस्य । "रौप्येन(ण) नीलदृशदां दधता पिधानं पीयूषपूर्णकलशीयुगलेन किं वा ॥२१॥
युग्मम् ॥
(१) कृष्णत्वकलितचूचुकचारुणा । (२) पाण्डुरताधारिणा । (३) नाथीहृदयमेव गृहं तत्र निवसनशीलयोः स्मरतद्भार्ययोः । (४) विनोदार्थं भृङ्गसङ्गिकैरवद्वयेन ॥२०॥ (१) पितामहत्वेन प्रीत्या । (२) कर्तुम् (३) जरामरणराहित्यम् । (४) प्रसन्नीभूय । (५) दत्तेन । (६) स्मरस्य । (७) रजतसम्बन्धिना । (८) नीलमणीनाम् । (९)
सुधापरिपूरितकुम्भीद्वयम् । “अवलम्बितकर्णशष्कुलीकलशी क"मिति नैषधे ॥२१॥ हील. यस्याः सह मेचकिम्ना श्यामत्वेन वर्त्तते, तादृशाभ्यां चूचुकाभ्यां सुन्दरेण । पुनरुज्ज्वलेन स्तनद्वयेन
शोभितम् । उत्प्रेक्ष्यते । नाथीचित्तमेव गृहं तत्र निवासिनो रतीशरत्योः विनोदार्थं भ्रमरयुक्तकैरवद्वयेनेत्येवं वयं विद्मः ॥२०॥ प्रेम्णा आगतेन । पुनः प्रसन्नीभूय धात्रा दत्तेन । पुनः पलेवापाषाणढंकनकयुक्तेनामृतपूर्णकलशद्वयेनेव
स्तनद्वयेन रेजे । उत्प्रेक्ष्यते । अजरामरत्वं निष्पादयितुं प्रेम्णा दत्तेनेव ।।२१।। हीसु० पीनस्तनद्वयम मेचकितं पयोभि-स्तस्याः क्षणं क्षणमपूर्यत गर्भवत्याः ।
सान्दै रसैरिव ३विकाशिकुशेशयिन्याः कोशद्विकं विशदमश्रिय मादधानम् ॥२॥
(१) पाण्डुरितम् । ( २ ) स्निग्धैर्मकरन्दैः । (३) विकचकमलिन्याः।(४) श्वैत्यलक्ष्मीम् ॥२२॥ हील० पीन० । तस्या गर्भवत्या अमेचकितं पाण्डुरीभूतं कुचद्वन्द्वं क्षणं क्षणं स्तन्यैः पूर्णं जायते स्म । यथा 1. ०मायुधेन हीमु० 2. विकस्वरकैरविण्याः हीमु० । 3. ०यमद्वहन्त्याः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org