SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'कालागुरुद्वकरम्बितगन्धधूली-पत्त्रावलीकलितपाण्डुरगण्डभाजा । छायाधर: शरदपास्त पयोदरोधोऽवश्याय दीधितिरह स्यत तन्मुखेन ॥१५॥ (१) कृष्णागुरुद्रवेणमिश्रीकृतकस्तूरीपत्रलताङ्कितपाण्डुरकपोलं भजन्त्या ।(२) लाञ्छनयुतः । (३) घनरुन्धनं यस्य । (४) चन्द्रः । (५) हसितम् । (६) नाथीवदनेन ॥१५॥ हील० कृष्णागुरुपङ्केन व्याप्ता कस्तूरी, तस्याः पत्रलतासहितौ धवलौ गल्लौ भजति, तादृङ्मुखेन श्यामताधरः अभ्रमुक्तस्तुहिनकान्तिर्हसितः ॥१५॥ हीसुं० लीलाचलद्दलगणा 'विगलन्मरन्द-लुभ्यन्निलीनमधुपा सितपद्मपङ्क्तिः । प्रस्यन्दमाननयनेन रेसविभ्रमभू-भाजा यदीयवदनेन विडम्ब्यते स्म ॥१६॥ (१) लीलया नातिशयेन मन्दमरुत्प्रेरणया चपलीभवन्तष्प( : पर्णनिवहा यस्याम् । तथा मकरन्दार्थं लोलुपीभवतामत एव निलीनानां कोशान्तर्लयं प्राप्तानां भ्रमराणामासितमवस्थितिर्यस्यां तादृशी कमलमाला । (२) स्वभावचपले लोचने यस्मिन् । (३) विलासकलितभुवं भजतीति । (४) नाथीमुखेन । (५) अनुक्रियते स्म ॥ १६ ॥ हील० चलन्नेत्रेण विलसद्धूसहितेन यद्वदनेन नातिशयेन चलन् दलानां गणो यत्र । पुनर्भमराञ्चिता धवलकमलश्रेणिरनुक्रियते स्म ॥१६॥ हीसु० 'नीलारविन्दनयना कलमावदाता बन्धूकदन्तवसना सितकान्ति वक्त्रा । "कासस्मिता कुमुदिनी सुरभिर्मराल-लीलागति: 'शरदिवाजनि सा 'तदानीम् ॥१७॥ (१) नीलोत्पलः । (२) कलमशालिवदुज्ज्वला । (३) बन्धुजीवाधरा । (४) चन्द्रमुखी। (५) कासवद्विशदहसितं यस्याः (६) कुमुद्वत्सुगन्धा । (७) मरालो हंसस्तद्वन्मन्थरा गतिर्यस्याः (८) शरदर्थे । (९) सर्वं तदेव गर्भाधानसमये ॥ १७ ॥ हील० तदानीं गर्भाधानसमये सा शरत् जातेव । किंभूता सा शरच्च ? । नीले पङ्कजे तद्वत्ते एव वा नेत्रे यस्याः । कलमाः शालयस्तद्वत्तैश्च गौरी । तथा बन्धूकानि सुमानि तद्वत्तान्येवाधरो यस्याः । सिता कान्तिर्यस्य तादृग् मुखं यस्याः । पक्षे चन्द्र एव मुखं यस्याः कासास्तद्वत्ते एव स्मितं यस्याः । कुमुदिन्यः कैरविण्यस्तद्वत्ताभिर्वा सुगन्धिः । मराला राजहंसास्तद्वत्तेषां च मन्थरतया गतिर्यस्या यस्यां वा ॥१७|| हीसु० 'माणिक्यभूषणगणैर्न तदा कदाचि-त्खेदोदयाद्वपुरभूष्यत चन्द्रमुख्या । क्रीडागतामरकरावचिताम्बुजातां जानेऽनुयातुमनसा सरितं सुराणाम् ॥१८॥ (१) माणिक्यानामुपलक्षणान्मणी अलङ्कारनिकरैः । (२) गर्भधरणनिर्वेदात् । (३) जलक्रीडार्थ 1. सरसि हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy