SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७० 'श्री हीरसुन्दर' महाकाव्यम् (१) कनककमलपरागपिङ्गीभूतैः । (२) हंसैः । (३) शेखरैरिव । (४) सरांसि । (५) पद्माकरे पद्मसद्मनि वा।(६)लक्ष्म्याः ।(७) प्रवेशोत्सवे ।(८) तूर्यशब्दैः, वादित्र-निर्घोषैः ॥१३६॥ हील० है | कनकाम्बुजरसेन पीतैहँसैः सरांसि भान्ति । क्रौञ्चैरपि केङ्कारवो विधीयते । उत्प्रेक्ष्यते । पद्मगृहे लक्ष्मीप्रवेशे वादित्रनिर्घोषैः ।। १३६ ।। हीसुं० वाता वान्ति 'स्मितकजसरिद्वारि कल्लोलयन्तो मन्दं मन्दं स्खलितगतय: "स्त्रैणवक्षोजशैलैः । जातिस्नेहात्कि मिह मिलितुं “कम्पितैराननाना'माजानेया अपि २ हरिहयानाह्वयन्ते विभाते ॥१३७॥ (१) विकसितानि कमलानि यस्यां तादृग्नद्या जलम् । (२) तरङ्गयुक्तं कुर्वन्तः । (३) शनैः शनैः । (४) भग्नं गमनं येषाम् । (५) युवतीव्रजविककितकुचाचलैः । (६) अश्वानां ज्ञातेः प्रेम्णः । (७) भुवि । (८) वक्त्रवेल्लनैः । (९) कुलीनाश्वाः । (१०) इन्द्रस्य रवेर्वा तुरगान् । (११) आकारयन्ति ॥ १३७ ॥ हील० वाता० । विकस्वरकमलसहितनदी[जलं] कल्लोलयन्तः । एतेन शीतसुरभित्वम् । पुनः स्त्रीसमूहकुचाचलैर्मन्दा गतिर्येषां, तादृशा । एतेन मन्दत्वम् । वाताः प्रभाते वान्ति ।पुन: आजानेयाः कुलीनाश्वाः इह पृथिव्यां मिलितुं मुखकम्पनेन सूर्याश्वानाकारयन्तीव ॥ १३८ ।। हीसुं० 'चन्द्रानने!ऽ'मन्दमरन्दबाष्पा कुमुद्वती "मुद्रितनेत्रपत्रा । "विधोवियोगादिव 'कोशमध्यावरुद्धगुञ्जन्मधुपै विरौति ॥ १३८ ॥ (१) शशिमुखि ! । (२) बहुलमकरन्दमेव रोदनजलं यस्याः । (३) कैरविणी (४) निमीलितलोचनसदृक्पर्णा । (५) शशिविरहतः चन्द्रास्तमनात् । (६) मुकुलमध्ये बद्धैर्मध्य एव स्थितैः शब्दायमानैः भृङ्गैः । (७) रोदिति ॥ १३८ ॥ हील० हे चन्द्रानने ! बहुलमकरन्द एव नेत्राम्बु यस्याः । पुननिमीलिते नेत्रे इव पत्रे यस्यास्तादृशी कैरविणी गुञ्जभ्रमरैश्चन्द्रवियोगाच्छब्दायते ॥ १३९ ।। हीसुं० 1 उपगतमिहान्यस्माद्द्वीपात्प्रगेऽधिपतिं त्विषा "मनुरतिपरीरम्भारम्भप्रसारिकरं पुरः । 'विकचवदना "राजीविन्यः “स्फुटोद्गतकण्टका 2"नलिननयनैरा लोकन्ते वशा इव ११वल्लभम् ॥ १३९ ॥ इति सखीकथितरात्रिविरामविभातदिनकरोदयः ॥ (१) आगतम् । (२) द्वीपान्तरात् । (३) प्रभाते । (४) भास्करम् । (५) अनुरागेणालिङ्गन प्रारम्भाय प्रसारिताः हस्ताः किरणाश्च येन । (६) हसितमुखाः । (७) पद्मिन्यः । (८) प्रकटं 1. आगमने गमनार्थाः समभ्युपाभ्यः पराः कथिताः । इति हीलप्रति पार्श्वे टि० । 2. नयनकमलै० हीम० । 3. इति विभातदिनकरोदय वर्णनम हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy