SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६९ द्वितीयः सर्गः हील० सूर्यगभिणी । पुनः स्तोकनक्षत्राभरणा पूर्वा दिग् वशेव पाण्डुरतां धत्ते ॥* १३२।। हीसुं० 'तमस्विनीशेऽस्तमिते प्रकाशतां विलोकयास्ये दधतेऽखिला दिशः । कलङ्किदोषाकररुद्रसङ्गिनां वहन्ति केन व्यसनोदये मुदम् ॥१३२॥ (२) चन्द्रे । (२) प्रकटताम् । (३) कलङ्कवतां अपवादभाजां, निर्गुणानां, रौद्रं चण्डं श्रितानां, पाप्मवतीपतीनाम् । (४) आपद आविर्भावे ॥१३२॥ हील० चन्द्रेऽस्तमितेऽखिला दिशः प्रकाशं बिभ्रति, तत्त्वं पश्य । अपवादिनामपगुणवतां चन्द्र सङ्गिनामापत्प्रकटी[ भावे] के मोदं न वहन्ति ॥१३३॥ हीसुं० 'इतः श्रिया' निजितविश्वयौवते ! समुज्जिहान: "सविता "निपीयताम् । किमु स्फुरद्भाग्यभरो विभावरीवियुज्यमानद्विजसन्ततेरसौ ॥१३३॥ (१) अस्मिन्पार्श्वे । (२) वपुर्लक्ष्म्या पराजितजगद्युवतीजनव्रजे ! । (३) उदयन् । (४) सूर्यः । (५) सादरमवलोक्यताम् । (६) रात्रौ वियोगं प्राप्नुवन्त्याः द्विजानां-पक्षिणां श्रेण्याः चक्रवाकपङ्क्तेः ॥१३३॥ हील० इतः० । हे प्रियानिर्जितविश्वयुवतीसमूहे ! । इतः अस्मिन्पार्श्वे प्राच्यां दिशि अभ्युदयन् सूर्यस्त्वया सादरमवलोक्यताम् । किमुत्प्रेक्ष्यते । विभावर्यां वियुज्यमानानां वियोगं प्राप्नुवतां द्विजानां-पक्षिणां अर्थाच्चक्रवाकानां सन्ततेः श्रेण्या असौ सर्यरूपः स्फरन्प्रकटीभवन्भाग्यभर इव ॥१३४ ॥ निरी(रि)त्वरीभिर्मधु पीभिरु लसत्सरोजकोशात्सखि ! मञ्जु गुञ्ज्यते । किं गायनीभिर्धवलस्य वासर" श्रियाब्जबन्धो: "करपीडनोत्सवे ॥१३४॥ (१) निर्गमनशीलाभिः । (२) भ्रमरीभिः । (३) विकसत्कमलमुकुलात् । ( ४) श्रवणसुखकद्यथा स्यात्तथा गायनकर्तीभिर्गान्धवीं[ भिर्वा । (५) धवलमङ्गलस्य गानकर्त्य :। (६) दिनलक्ष्म्या । (७) सूर्यस्य । (८) पाणिग्रहणमहोत्सवे ॥१३४॥ हील. निरि० । हे सखि ! विकसत्कमलमुकुलान्निर्गमनशीलाभिर्धमरीभिर्गुज्यते । किमुत्प्रेक्ष्यते । सूर्यस्य दिनलक्ष्म्या सह पाणिग्रहोत्सवे धवलमङ्गलगायनीभिः ॥१३५।। हीसु० 'हले ! हिमाम्भष्प(: प)तितं विहङ्गमव्याहारलीलायितवल्लिपल्लवे । "गायन्मृगाक्षीदशनच्छदे "द्विजज्योत्सनास्मितश्रीरिव लक्ष्यते क्षणम् ॥१३५॥ (१) सखि ! । (२) हिमजलम् । (३) पक्षिणां कूजितानां गिरां लीलया आचरितं यत्र तादृग्लतायाः किसलये । (४) गानं कुर्वत्या युवत्या अधरे । (५) दन्तचन्द्रिकाकलित हसितलक्ष्मीः । (६) दृश्यते ॥१३५॥ हील० हे हले ! पक्षिणां भाषितवचनानां लीलयाचरितं यत्र । तादृशे वल्लिपल्लवे पतितं हिमाम्भः दृश्यते । यथा रामाधरे दन्तकान्तिकलितस्मितशोभा दृश्यते ॥ १३६ ॥ हीसुं० 'हैमाब्जनिर्यासपिशङ्गितैः सितच्छदैवतंसैरिव भान्ति "पल्वलाः । क्रौञ्चैरपि क्रेङ्क्रियते 'कजाश्रये श्रिया: "प्रवेशे किमु “तूर्यनिस्वनैः ॥१३६॥ हीसं० निरी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy