SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ७१ प्रकटीभूतकण्टका रोमाञ्चस्य यस्याः । (९) कमललोचनैः । (१०) पश्यन्ति । (११) भर्तारम् ॥१३९॥ हील० उप०। प्रगे-प्रातरन्यद्वीपादागतं पुर:-अग्रे अनुरागेणालिङ्गनार्थं प्रसारिणः किरणाः हस्ताश्च यस्य । तं सूर्यं विकसितमुखाः उद्गतरोमहर्षाः पद्मिन्यः नेत्रतुल्यैविलोकन्ते ।।*१४०॥ हीसुं० आनन्दाद्वयवादमेदुरमना मध्ये सखीनामिति 'प्रारब्धाभिनवोक्तियुक्तिरचनावाग्देवताश्रीजुषाम् । देवीनां जयवाहिनीव सुमनोवल्लीव वा वीरुधां ताराणां विधुमण्डलीव महिला कामप्यवाप “श्रियम् ॥१४०॥ इति पण्डितदेवविमलगणि विरचिते हीरसुन्दरनाम्नि महाकाव्ये कुंरा-नाथीगजस्वप्न-स्वप्नजागरिकासखीगोष्ठ्यादिवर्णनो नाम द्वितीयस्सर्गः ।।। (१) प्रह्लादस्याद्वैततया पुष्टमानसी । (२) प्रक्रान्तनवीनवार्तायुक्तिसन्दब्भैः शारदाशोभाभाजाम् । (३) इन्द्राणी । (४) कल्पलता वल्लीनाम् । (५) चन्द्रबिम्बम् । (६) नाथी । (७) अनिर्वचनीयाम् । (८) लक्ष्मीम् ॥ १४० ॥ ॥ इति द्वितीयः सर्गः ॥ हील० आनन्दाधिक्येन पुष्टचेताः सा सरस्वतीशोभाभाजां सखीनां मध्ये स्थिता सती अनिर्दिष्टवचनीयां शोभां प्राप । यथा देवीनां मध्ये इन्द्राणी, वल्लीनां मध्ये कल्पवल्ली, ताराणां मध्ये चन्द्रमण्डलीव । तारा पुंस्त्रीलिङ्गे । मण्डलशब्दस्त्रिलिङ्गे ॥ १४१ ।। हील० →यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसी(सिं )हविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मी क्रमसेविदेवदिमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते सर्गो द्वितीयोऽभवत् ॥ १४२ ॥ इति पं.श्री सीहविमलगणिशिष्य पं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये कुंरा-नाथीगजस्वप्न-तज्जागरिका-सखीकथित-भरतदिग्विजयादि-रात्रिविराम-दिनकरोदयवर्णनो नाम द्वितीयः सर्गः ॥ इति पं. देवविमलगणिव्यावर्णिते हीरसौभाग्याभिधे महाकाव्ये हीरविजयसूरिचरिते द्वितीयः सर्गः अभवत्-जातः ॥ १४२ ।। ॥ इति द्वितीयः सर्गः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy