________________
६६
'श्री हीरसुन्दर' महाकाव्यम्
सेव्यते ॥ १२० ॥
हीसुं० बभूवुरिक्ष्वाकुकुले सहस्रशः 'सहस्त्रशोचिः सदृशा महौजसा । ततः क्षितीन्द्रा 'जगदीहितावहा " महेन्द्रशैले "सुरभूरुहा इव ॥ १२० ॥
(१) सूर्यतुल्याः । (२) स्फुरत्प्रतापैः । (३) विश्ववाञ्छितविधायिन: । ( ४ ) मेरौ । ( ५ )
कल्पतरवः ॥ १२० ॥
'इति भरतदिग्विजयादिः ।
हील ० ततोऽनन्तरं प्रतापेन सूर्यसदृशाः धरेन्द्रा अभूवन् । यथा जगत्कामितदाः कल्पवृक्षा भवन्ति ॥ १२१ ॥ हीसुं० 'इदं वदन्त्याम'विन्दचक्षुषष्पु ( : पु) रोऽथ तस्यामपरा ४ निपस्तनी । गिराननं^ योजयति स्म कौतुकान्मरा' लिकायामिव कीरकामिनी ॥१२१॥
( १ ) पूर्वोक्तं भरतदिग्विजय - चैत्यनिर्मापणादि । ( २ ) नाथीदेव्याः । ( ३ ) अन्या । ( ४ ) घटस्तनी । (५) जगाद । (६) हंस्याम् ॥१२१॥
हील० इदं० । कमलाक्ष्याः पुरः इदं वदन्त्यां तस्यां सत्यामन्या घटस्तनी वदति स्म । यथा हंस्यां वदन्त्यां सत्यां की वक्ति ॥१२२॥
हीसुं० मृगाक्षि ! पश्यामर सिन्धुसारणी त्वमभ्रवीर्थी सुमनोवनीमिव । मयूखलेखामकरन्दितारकामणीचका मे चकिमालिमण्डलाम् ॥ १२२ ॥
(१) स्वर्गङ्गैव कुल्या यस्याम् । ( २ ) पुष्पवाटिकाम् । (३) किरण श्रेणिरेव मकरन्दो विश्व(द्य ) ते येषु तादृशास्तारका एव कुसुमानि यस्याम् । (४) गगनस्य श्यामलत्वमेव भृङ्गमाला यस्याम् ॥१२२॥
हील० हे मृगाक्षि ! स्वर्नदीसारणी यस्यां तादृशी पुष्पवाटिकामिवाभ्रपद्धतिं पश्य । किंभूताम् ? । किरण श्रेणिरेव मरन्दो यस्यां ताराः पुष्पानि (णि) यस्यां मेचकिमा गगनश्यामत्वमलिमण्डलं यस्यां ताम् ॥ १२३॥ हीसुं० 'मृगेन्द्रमध्ये ! मृगयस्व तारकान् श्रमोदबिन्दुस्तबकानिवाङ्गके ।
३
"विभावरीकैरवचक्षुषोऽमुना 'निखेलयन्त्या 'दयितामृतांशुना ॥१२३॥
( १ ) पञ्चाननोदरि ! । ( २ ) पश्य । ( ३ ) परिक्लमजलकणनिकरान् । ( ४ ) शरीरे । ( ५ ) रात्रिस्त्रियाः । ( ६ ) क्रीडयन्त्या । ( ७ ) भर्त्रा चन्द्रेण ॥ १२३॥
Jain Education International
हील हे सिंहोदरि ! ताराकान्पश्य । उत्प्रेक्ष्यते । अमुना दृश्यमानेन दयितेन चन्द्रेण सह क्रीडन्त्याः रात्रिरामायाः श्रमजलबिन्दून्शरीरे पश्य ॥ १२४॥
1. इति ऋषभदेव - भरतदिग्विजयादिः हील० ।
For Private & Personal Use Only
www.jainelibrary.org