________________
द्वितीयः सर्गः हीसुं० नृपोऽयमाद्योऽजनि सङ्घनायकः कृशाङ्गि ! शत्रुञ्जयरूप्यशैलयोः ।
क्षमाभृतां भोगभृतां च योऽग्रणीरभूत्पुनः कुण्डलिनामि'वाधिभूः ॥११६॥ (१) सङ्घपतिः (२) शत्रुञ्जयाष्टापदयोः । (३) पृथ्वीधराणाम् । (४) भोगं सर्पशरीरं
राज्यादिसुखं च तद्भाजाम् । (५) शेषनागः ॥११६॥ हील० नृपो० । अयं भरतः शत्रुञ्जयाष्टापदयोः सङ्घपतिष्पु(: पु)न: पृथ्वीपतीनां भोगिनां मध्ये मुख्योऽभूत् ।
यथा क्षमाभृतां गिरीणां भोगः सर्पकायस्तद्धृतां सर्पाणां मध्ये शेषः मुख्यो भवति ॥११७।। हीसु० असौ प्रकामप्रमदं ददानया 'प्रसूतया ३ध्यानसुधापयोधिना।
शिवश्रिया अग्रजयेव केवलश्रिया श्रितो "दर्पणिकानिकेतने ॥११७॥ (१) अतिशयहर्ष सिद्धि प्रकर्षेण मदनस्य प्रमोदम् । (२) जनितया । (३) ध्यानरूपक्षीरसागरेण । (४) वृद्धभगिन्या । (५) आदर्शगृहे । “यन्मतौ विमलदर्पणिकाया' मिति नैषधे
॥११७॥ हील० असौ० । ध्यानमेव क्षीराधिस्तज्जातया । पुनः प्रकाममत्यर्थम्, अथवा प्रकृष्टकामस्य स्वसुतस्य
प्रमोदं ददानया केवललक्ष्म्या यः आदर्शिकाभुवने वृत्तः । उत्प्रेक्ष्यते । मोक्षलक्ष्म्या ज्येष्ठभगिन्येव
प्रथमोत्पन्नत्वेन केवलज्ञानानन्तरं मोक्षप्राप्तेः ॥११८॥ हीसुं० दिगन्तवासं किम पास्य काश्यपी'विहारशीलैः ककुभां "पुरन्दरैः ।
'तदष्टपट्टक्षितिपैरवाप्यता मुनेव सीमन्तिनि केवलेन्दिरा ॥११८॥ (१) दिशां प्रान्ते वसतिम् । (२) त्यक्त्वा । (३) भूमीविवरणस्वभावैः । (४) दिगीशैः । "आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्र" रिति नैषधे । (५)
भरतादारभ्याष्टपट्टधरैः राजभिः । (६) अवापे । (७) आदर्शगृहे । (८) केवलश्रीः ॥११८॥ हील. दिग० । हे सीमन्तिनि ! तस्य भरतस्य अष्टपट्टक्षितिपैः भरतेनेव केवललक्ष्मीः प्राप्ता । उत्प्रेक्ष्यते ।
दिशां प्रान्ते वासं त्यक्त्वा पृथ्व्यां विलासिभिः अष्टदिक्पालैः ॥★११९॥ हीसुं० ततोऽस्य 'सङ्ख्यातिगपट्टपङ्क्तिभिः प्रपद्य शत्रुञ्जयमूर्द्धिन केवलम् ।
'महोदयश्री: समसेवि भास्करैरिवोदयं “द्यौरुदयावनीधरम् ॥११९॥ (१) भरतपट्टधरैरसङ्ख्यश्रेणिभिर्भूपैः । (२) शत्रुञ्जये । (३) केवलज्ञानम् । (४) अधिगम्य । (५) मोक्षलक्ष्मीः । (६) भेजे । (७) यथा सूर्यैः । (८) उदयाचले उदयं प्राप्य गगनं सेव्यते
॥११९॥ हील० ततोऽष्टमपट्टधरदण्डवीर्यराजानन्तरं सङ्ख्यामतिगच्छन्त्यतिक्रामन्ति । तादृशाः पट्टपङ्क्तयस्ताभिः
__सिद्धाचलशिखरे केवलज्ञानमासाद्य मुक्तिलक्ष्मी: संसेविता । यथा सूर्येरुदयाचले उदयं प्राप्य द्यौराकाशं 1. विलास० हीमु० । 2. रे हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org