________________
'श्री हीरसुन्दर' महाकाव्यम् हील. स च० । भरतभूमितिलकायमानानां चक्रिणां मध्ये आद्यो भरतचक्रयभूत् । यथा भरतपिता
ऋषभनाथः जिनराज्ञां मध्ये आद्यः अभूत् ॥११२॥ हीसुं० य आदिमोद्धारकरो जिनालयं व्यधापयन्मूर्द्धनि सिद्धभूभृतः ।
समग्रतीर्थेष्वपि 'सार्वभौमता ममुष्य वक्तुं किमु हेमशेखरम् ॥११२।। (१) प्रथमोद्धारविधाता । (२) अत एवं शत्रुञ्जयशिखरे ऋषभप्रासादम् । (३) कारयति
स्म । (४) चक्रवर्तिताम् । (५) शत्रुञ्जयस्य । (६) सुवर्णोत्तंसम् ॥११२॥ हील० य आ० । यो भरतः श्रीशत्रुञ्जयपर्वते जिनगृहं निर्मापयति स्म । उत्प्रेक्ष्यते । एतस्य तीर्थेषु
चक्रवर्तित्वं वक्तुं हेमशिखाम् ॥११३॥ । हीसुं० मृगाक्षि ! सो पारककु'लपाकयोर मूल्यमाणिक्यविनीलरत्नयोः ।
३स्वतातमूर्तीर्भ( भ)रतेन कारिते दृशाविवैते भरतावनीश्रियः ॥११३।। (१) सोपारकनाम पत्तनं कुल्लपाकनाम नगरं, तयोः । (२) महर्घ्यपद्मरागमरकतरत्नयोः ।
(३) ऋषभदेवप्रतिमे । (४) भरतक्षेत्रलक्ष्या नयने इव ॥११३॥ हील. हे मृगाक्षि ! भरतेन अमूल्येन रक्तरत्नेन नीलरत्ने[न] च स्वतातस्य ऋषभदेवस्य मूर्ती कारिते।
तेऽद्यापि शत्रुञ्जयतलहट्टिकायां सोपारकं नाम पत्तनं, पुनः कुल्यपाकं नाम नगरं, तयोः पुरयोर्विषये
विद्येते इत्याध्याहारः । उत्प्रेक्ष्यते । भा(भ)रतक्षेत्रक्षोणिलक्ष्म्या एतेऽप्रतिमे दृशौ नेत्रे इव ॥११४|| हीसुं० तथा 'चतुर्विंशतितीर्थकृद्गृहं धराधवोऽष्टा पदभूधमुर्द्धनि ।
2२व्यधापय शाश्वतजैनवेश्मवत्तदद्य' यावर्द्धव[व]द्वितिष्ठते ॥११४॥ (१) तुल्यनासाग्रचतुर्विंशतिजिनप्रतिमं सिंहनिषद्यानामप्रासादम् । (२) अष्टापदोपरि । (३) कारयति स्म । (४) शाश्वतचैत्यतुल्यम् । (५) अधुनापि । (६) ध्रुवतारक इव यस्तिष्ठति
॥११५॥ हील० तथा० । तथा, पुनः स भरतभूपतिः कैलाशशैलशिखरे तुल्यनासाग्रस्वस्ववर्णप्रमाणपद्मासना
द्यङ्कितप्रतिमालङ्कृतसिंहनिषद्या नाम जिनसद्म कारितवान् । अन्यत्सुखोनेयम् ॥११५|| हीसुं० परान्पर:१ कोटिजिनालयानयं हिरण्यमाणिक्यमयानचीकरत् ।
जिनेन्द्रमूर्तीरपि कोटिशस्तरीरिवाङ्गिनां संसृतिसिन्धुपातिनाम् ॥११५।। (१) कोटिशः प्रासादान् । (२) स्वर्णरत्नमयान् । (३) दण्डा इव । ( ४ )संसारसमुद्रे
पतनशीलानाम् ॥११५॥ हील० परा० । अयं भरतचक्री कोटिमितान् जिनालयान्कारयामास । पुनः कोटिमिताः प्रतिमाः कारयति
स्म । उत्प्रेक्ष्यते । संसारसमुद्रपतनशीलानां मनुजानां नाव इव ॥११६।। 1. ०कल्य० हीमु० । 2. व्यधापयत्शाश्वतसार्ववेश्मवत तच्चैत्यमद्य धववद्यथास्थितम् होल० । 3. ०श्वतसार्ववे० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org