________________
द्वितीयः सर्गः
तद्वत् ॥१०८॥ हीसुं० अवापितो गोचरतां स मागधैरिव स्तवस्य प्रमदेन 'मागधैः ।
सृजद्भिरिन्द्रो ऽ'दिगणैः 'कलिं गजैरिवोपलै “रुद्धनतः कलिङ्गजैः ॥१०८॥ (१) बन्दिभिरिव स्तुतः । (२) मगधदेशनृपैः । (३) कुर्वद्भिः । (४) शक्रः । (५) गिरिगणैः । (६) सङ्ग्रामम् । (७) प्रस्तरैः । (८) पूर्वं रुद्धः पश्चान्नतः । (९) कलिङ्गदेशभूपैः
॥१०८॥ हील० स भरतचक्री बन्दीजनैरिव मगधदेशोद्भवै पैः स्तुतेविषयतां प्रापितः । पुनः गजैः कलिं सृजद्भिः,
कलिङ्गदेशनृपैः पूर्वं रुद्धः पश्चान्नतः । यथोपलैः कलि कुर्वद्भिः पर्वतैः रुद्धः नतश्च ॥१०९॥ हीसुं० नि( दि)शां चतुर्णामयमर्णवावधीनिति प्रदेशान् २ध्वजिनीभिरानशे३ ।
विभासिताभि: स्मितसिन्धुरश्रिया यथा भ्रिकाभिः प्रसरत्पयोधरः ॥१०९॥ (१) समुद्रपर्यन्तान् । (२) सेनाभिः । (३) व्याप्नोति स्म । (४) धवलगजैः ऐरावणेन वा शोभिताभिः । ऐरावणो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः । “प्रावृषेण्यं पयोवाहं विद्युदैरावतावि
वे"ति रघुवंशे । (५) वईलैः । (६) विस्तरन्मेघः ॥१०९॥ हील० चतु० । शुभ्रगजशोभया शोभिताभिः सेनाभिश्चतुर्दिगवयवान्व्याप्नोती(ति) स्म । यथा विस्तृतो मेघो
वर्द्दलैर्दिगवयवान्व्याप्नोति ।।*११०।। हीसं० अथैष वेलातटतः समं भटैय॑ग्वीवृतन्नीर धिनेमिनायकः ।
'गभीररावैरु दरं भरन्भुवो रयः पयोधेरिव यादसां भरैः ॥११०॥ (१) पूर्वसमुद्रजलवेलातीरात् । (२) सैनिकैः सार्द्धम् । (३) निवर्त्तते स्म । पश्चाद्ववले । (४) भरतचक्री । (५) सेनागम्भीरशब्दैः । (६) पृथिव्या मध्यम् । (७) पूरयन् । शब्दाद्वैतमयां
भुवं कुर्वन् । (८) पयःप्रवाहः । (९) जलजन्तुनिकरैः ॥११०॥ हील० अथेत्यनन्तरं गम्भीरस्वरैः पृथ्व्या मध्यं भरन् । पृथ्वीनाथो भटैः समं समुद्रतटान्निवर्त्तते स्म । यथा
गजितैः पृथ्वी पूरयन् जलधिप्रवाहो मत्स्यौघैः समं तटे आगत्य पश्चानिवर्त्तते । एतावता सेना समुद्र
इव जात:(ता) ||१११|| हीसुं० स चक्रिणां 'भारतभूमिभामिनीविशेषकानां( णां) वृषभाङ्गजोऽग्रणी: ।
४तदीयवतेव जिना'वनीभुजामभूत्सुर श्रेणिनिषेवितक्रमः ॥१११॥ (१) भरतभूमिलक्ष्मीनां तिलकानां द्वादशचक्रिणाम् । (२) भरतः । (३) मुख्यः । (४) भरततातो युगादिदेवः । (५) सामान्यकेवलिनां चतुर्विंशतितीर्थकृतां वा । (६) अमरनिकरपरिचरितचरणः ॥११॥
1. चतुर्दिशामप्ययमर्ण० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org