________________
'श्री हीरसुन्दर' महाकाव्यम् हील० चमूध्वनिरुद्गतः प्रकटितः । उत्प्रेक्ष्यते । उदयाद्रिगुहामध्ये प्रियामुपगुह्यालिङ्गय आलिङ्ग्य सुखेन
सुप्तान्किनरान् प्रति इदंयश:-अस्य यशः गापयितुं गह्वरप्राप्तगज्जितैः उत्थापयन्निव ॥१०४॥ हीसुं० प्रगल्भफालैर्गगने नखैष्पुर : पु )नर्महीतलस्योत्खननैहयव्रजः ।
जयं सृज स्वर्बलिवेश्मनोईयोरथेति संज्ञापयतीव यं पतिम् ॥१०४॥ (१) उच्चैः सत्पतनैरुललनैः । (२) हे सार्वभौम ! त्वया भूः साधिता, अथ स्वर्लोकपातालयो
विजयं कुरु । (३) इति संज्ञां कुर्वन्ती( ती )व ॥१०४॥ हील० प्रग० । गगने उच्छलनैः पुनर्नखैः कृत्वा भूमिक्षोदनैरश्वौघः निजपति इति ज्ञापयतीव । इति किम् ?।
हे चक्रिन् ! त्वं स्वर्गपातालयोर्जयं सृज ।।*१०५।। हीसुं० 'पयोधिरोधःस्थलरोधिभिर्विभोर सजि गर्जाञ्जनबन्धुसिन्धुरैः ।
"चराचरे वर्षित-मुन्मुखैरितः किमम्बुदैरम्बुजिघृक्षयागतैः ॥१०५॥ (१) समुद्रोपकण्ठस्थलरुन्धनशीलैः । (२) कृता । (३) कज्जलाचलतुल्यैर्वपुषा श्यामत्वेन
च । (४) जगति । (५) उत्सुकैः । (६) जलग्रहणेच्छया ॥१०५॥ हील० पयोधेस्तटस्थलं वेलागमनभूस्तद्रुन्धन्ति इत्येवंशीलैः । अञ्जनाचलसहोदरैर्गजैर्गर्जा गर्जितमसर्जि
निष्पादिता । उत्प्रेक्ष्यते । सर्वजगति वर्षितुं उत्कण्ठितैरितः समुद्रादम्बुग्रहणेच्छया आगतैर्मेधैः किम् ?
।।*१०६॥ हीसुं० इवेक्षु डिम्भान्क्षि तिरक्षिणो महौजसा "समुत्खाय पुनः प्ररोपयन् ।
स "पूर्वपाथोनिधिसैकतक्षितिं क्षिते विवोढा व्रजति स्म “सस्मयः ॥१०६॥ (१) बालेशून् । (२) राज्ञः । (३) उत्कटप्रतापेन । (४) राज्याद् भ्रंशयित्वा । (५) पूर्वसागरस्य जलोज्झिततारभूमीम् । (६) भरतचक्री । (७) गतः । (८) सगर्व : ।
"पलालजालैः पिहितेक्षुडिम्भ" इति नैषधे ॥१०६॥ हील० स भूपः पूर्व समुद्रतटे व्रजति स्म । किं कुर्वन् ? । महाप्रतापेन क्षितिपान् राज्याद् भ्रंशयित्वा
पुनर्राज्ये स्थापयन् । यथा कृषिक: इक्षुडिम्भानुप्तस्थानादुत्खायान्यत्र रोपयति ॥१०७॥ . हीसुं० अजिह्मता सुमनृपैर्बिले "बिलेशयैरिवैतद्वसुधाधवे' दधे । .
विनम्रता च ध्रियते स्म वेतसै श्ये "स्रवन्त्या इव भूरि वैतसैः ॥१०७॥ (१) सरलता । (२) सुह्मनामदेशस्तन्नायकैः । (३) भुजगनिवसनस्थाने । (४) सप्पैः । (५) भरतचक्रिणि । (६) नामद्रुमैः । (७) प्रवाहे । (८) नद्याः । (९) वेतस्वद्देशभूपैः
॥१०७॥ हील० अजि० । एतस्मिन्नृपे सुह्मदेशनृपैः अकुटिलता दधे-धृता । यथा भुजङ्गैबिले सरलत्वं ध्रियते ।
पुनर्भूरिभिर्वैतसदेशीयनृपैर्विशेषेण नम्रता ध्रियते स्म । यथा नद्याः रये प्रवाहे वेतसवृक्षैर्नम्रता ध्रियते, 1. ०यति स्वयं पतिम् हीमु० । 2. मुत्सुकैरितः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org