________________
F१
द्वितीयः सर्गः हीसुं० हरेर्महिष्यां' हरिति प्रयातवान्य आदितः सादितगोत्रशात्रवः ।
पति: सुराणामिव दानवारियुग्गजेन्द्रसिन्धूद्भववाजिराजितः ॥१००॥ (१) पूर्वदिशि । “निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरि" दिति नैषधे । (२) प्रथमतः । (३) हता वंशा येषां तादृशा वैरिणो यस्य । (४) इन्द्र: । (५) मदजलकलितकरिराजसिन्धु
देशोत्पन्नहयश्रेणिशोभितः । देवव्रज्रयुतैरावणसमुद्रोत्पन्नोच्चैःश्रवोराजितः इन्द्रपक्षे ॥१०७।। हील० हरे० । यः प्रथमत इन्द्रपत्न्यां दिशि प्राच्यां गतः । यथा सुराणां पतिः प्राच्यां याति । किंभूतो यः
शक्रश्च ? | उच्छेदिता गोत्रसहिता गोत्राः पर्वता एव वा शात्रवा येन सः । पुनः किंभूतो यः शक्रश्च ? । दानवारिभिर्मदजलैर्युञ्जन्ति योगं प्राप्नुवन्ति । तादृशा गजेन्द्राः । सिन्धुदेशोद्भवा वाजिनस्तै राजितः । पक्षे-दानवानां दैत्यानामरिभिर्देवैर्युनक्तीति । देवयुक्त इत्यर्थः । तथा ऐरावणः सिन्धूद्भवः
समुद्रोत्पन्नः उच्चैःश्रवा अश्वस्तेन शोभितः ॥१०१।। हीसुं० स 'सार्वभौमो २ध्वजदण्डशेखरीकृतस्फुरत्काञ्चनकुम्भकान्तिभिः ।
मतङ्गजैरञ्जनशैलमांसलैः क्षितौ 'तनोतीव सविधुदम्बुदम् ॥१०१॥ (१) भरतचक्रवर्ती । (२) पताकादण्डेषु उत्तंसा विहिता ये दीप्यमानकनककलशास्तद्रुचिभिः । (३) गजैः । (४) कज्जलगिरिवन्मांसलैः पुष्टैरुन्नतैश्च । (५) करोतीव । (६)
तडित्कलितमेघम् ॥१०१॥ हील० स चक्री ध्वजानां दण्डेषु उपरिस्थितानां, पुनः स्फुरतां दीप्यमानानां कनककुम्भानां कान्तिर्येषु,
तादृशैः । पुनरञ्जनाचलवत्पुष्टैर्गजैः पृथिव्यां विद्युत्सहितं मेघं करोतीव ।। १०२।। हीसुं० दशामवास्यन्ति यदन्तिमामिमेऽस्मदाश्रया लक्षमिता: 'क्ष'माक्षितः ।
विवर्णतेतीव दिगङ्गनागणैर्मुखे निषेवेऽस्य चमूरजोभरैः ॥१०२॥ (१) अवस्थाम् । (२) यस्मात्कारणात् चरमां मरणलक्षणामित्यर्थः । (३) वयमेवाश्रय आवासस्थानं येषाम् । (४) राजानः । (५) विच्छायता । (६) भेजे । (७)
चतुरङ्गदलचलनोद्भूतधूलीभिः ॥१०२॥ हील० दशा० । वयमेवाश्रयो येषां तादृशाः, पुनर्लक्षबद्धाः क्षितिपाः । अन्तिमां दशां मरणावस्थां लप्स्यन्ते ।
इतीव कारणाद्दिग्रामाभिः सेनारेणुभिः कृत्वा मुखे विवर्णता विच्छायता निषेवे धृता ॥ १०३|| हीसुं० 'चमूध्वनिः 'प्राग्गिरिकन्दरोदरे प्रियोपगूढं सुखसुप्तर्किन्न( न )रान् ।
"इदंयशो गापयितुं 'गुहागतप्रतिस्वनै र्जाग[ र]यन्निवोद्गतः ॥१०३॥ (१) कटककोलाहलशब्दः । (२) उदयाचलगुहामध्ये । (३) प्रियां किंन( न )रीमुपगूह्यालिङ्गय सुखेन सुप्तान् किंपुरुषान् । (४) भरतकीर्तिः । (५) कन्दरोदरप्रसरत्प्रतिशब्दैः । (६) विनिद्रीकुर्वन् । (७) प्रकटीबभूव ॥१०३॥
1. क्षितिक्षितः हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org