SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः हीसुं० 'कुशेशयामोदिनि ! वीक्ष्यतामसौ शनैश्शनैष्प ( : प ) ङ्कजकाननानिलः । त्वदाननाम्भोजजनुःप्रभञ्जनैर्जित' ष्कि ( : कि) म 'भ्यर्णमुपैति सेवितुम् ॥१२४॥ ( १ ) कमलपरिमले ! । ( २ ) कमलवनवायुः । ( ३ ) भवन्मुखपद्मजन्मानिलैः । (४) पार्श्वम् ॥१२४॥ हील. हे कमलामोदिनी (नि) ! । पद्मिनीत्यर्थः । विलोक्यतां असौ स्पर्शानुमेयः नलिनवनवातः शनैः शनैः श्रीमत्याः अन्तिके आगच्छति । उत्प्रेक्ष्यते । तव वदनारविन्दाज्जनुरुत्पत्तिर्येषां तादृशैर्वातैर्जितः सन्सेवितुम् ॥*१२५॥ हीसुं० 'करेणुकुम्भस्तनि ! पश्य दीप्यतेऽन्तिके रमणीकुट्टिमबिम्बतारकैः । त्वदाननस्वामिसितांशुसेवनाकृते नभस्तः किमुपागतैरिह ॥ १२५ ॥ ( १ ) कुम्भिकुम्भपीनपयोधरे ! । ( २ ) मणीनिबद्धप्राङ्गणप्रतिबिम्बितज्योतिर्गणैः । ( ३ ) तव वदनमेव स्वस्वामिनो निजनायकस्य विधोः पर्युपासनाकृते । ( ४ ) गगनात् । (५) समागतैः । (६) त्वद्गृहाङ्गणे ॥१२५॥ हील. हे करेणुकुम्भकुचे ! यच्छ्रीमत्समीपे रत्ननिबद्धप्राङ्गणे बिम्बानि येषां तादृशैस्तारकैर्दीप्यते । तत्त्वं पश्य । उत्प्रेक्ष्यते । तव मुखमेव स्वामी चन्द्रस्तस्य सेवां कर्तुं गगनादिह त्वद्गृहाङ्गणे समेतैरिव ॥ १२६॥ हीसुं० 'त्वदीयवापीतपनास्तमुद्रिताम्बुजन्मकोशव्यसनानुपातिनः । रक्षपाक्षयायौं कृतिमन्त्रवर्णकानिव द्विरेफा “गणयन्ति गुञ्जितैः ॥ १२६॥ ६७ (१) तव क्रीडादीर्घिकायां सूर्यास्तमनेन निमीलितकमलमुकुले यद्व्यसनमापत् कोशान्तर्दुःखस्थितिविपत्तिस्तामनुलक्ष्यीकृत्य ज्ञात्वैव पद्ममुद्रणायां रात्रौ कोशान्तर्दुःखेन स्थातव्यमेवेति विचार्यैव पतन्तीत्येवंशीलाः । ( २ ) रात्रिविरामाय । (३) ओंकृतिरूपाणि मन्त्राक्षराणि । (४) भृङ्गाः । ( ५ ) गणयन्ति ॥ १२६ ॥ हील ० त्वदी० । हे स्वामिनि ! तव वाप्यां सूर्यास्तेन निमीलितकमलकोशेषु व्यसनमनुलक्षीकृत्य पतनशीलाः । पतित्वा स्थिता इत्यर्थः । भ्रमरा गुञ्जितैः कृत्वा रात्रिक्षयाय ऊँकारमन्त्रवर्णान्गणयन्ति - जपन्ति इव । ॐकारमन्त्रादिः सुखं दत्ते इति ॥१२७॥ हीसुं० 'नभःश्रियास्ता रकमौक्तिकस्रजष्किर (: कि) मेणनाभीशितिमाङ्कनायकम् । दृशा 'विनिर्दिश्य निशीथिनीपतिं परा ददे कापि गिरं मृगेक्षणा ॥। १२७ ।। ( १ ) गगनलक्ष्म्याः । (२) तारका एव मौक्तिकमाला - तस्याः । ( ३ ) कस्तूरिकायाः श्यामत्वेनाङ्कितमध्यमणिः । ( ४ ) दर्शयित्वा । (५) चन्द्रम् ॥ १२७॥ 1. तोऽन्तिकैः किं समुपैति० हीमु० । 2. शशाङ्कमादरात्० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy