________________
द्वितीयः सर्गः
'तथा 'प्रथन्तां कथका यथा कथा ममाग्रत: ४श्रीजिनचक्रिसंकथाः । यथा 'शुभस्वप्नदृशा मया निशा पनीयते "पद्धतिवत्पथिस्पृशा ॥९२॥ युग्मम् ॥ (१) एतानि सखीनामानि चम्पूकथायामेवंविधान्येव सखीनामानि दृश्यन्ते ॥११॥ (१) तेन प्रकारेण । (२) विस्तारयन्तु कथयन्त्वित्यर्थ : । (३) कथाकथयितार इव । (४) श्रीतीर्थकृच्चक्रवर्तिवार्ताः (५) प्रकृष्टस्वप्नावलोकिन्या । (६) पूर्णीक्रियते । (७) मार्ग
इव । (८) पान्थेन ॥९२॥ हील० पूर्वकाव्ये सखीसम्बोधनान्येव सन्ति । तथा० । हे सख्यः ! यूयं ममाग्रतः जिनानां चक्रिणां
वार्तास्तथा प्रथन्तां विस्तारयन्तु यथा कथकाः कथयन्ति । यथा शुभं स्वप्नं पश्यतीत्येवंशीलया मया
रात्रिरपनीयते । यथा पथिकेन पद्धतिवर्त्म अपनीयते ॥ ९२-९३ ॥ हीसुं० 'कथानुषङ्गेषु मिथस्सखीजनो दितेषु काचिद्वय सीदमा लपत् ।
परेषु गान्धर्व्वरसेषु पञ्चमप्रपञ्चि(ञ्च )गीतिं "विदुरेव गायनी ॥९३॥ (१) कथाप्रस्तावेषु । (२) कथितेषु । (३) सखी । (४) उवाच । (५) गीतिरसेषु । (६)
पञ्चमरागालापविस्तारम् । (७) चतुरा । (८) गानकारिका ॥१३॥ हील० क० । कथाप्रसङ्गेषु सखीकथितेषु काचित्सखी इदं कथयति स्म । यथान्येषु गान्धर्वरसेषु सत्सु
काचित्पण्डितगायनी पञ्चमगीति विस्तारयति ॥९४॥ हीसुं० 'पुराभवन्नाभिमहीहिमातेस्तनूभवः श्रीवृषभध्वजो जिनः ।
इवात्मभू राजसभावभासितः ससर्ज यो ‘विष्टपसृष्टिमात्मना ॥९४॥ (१) युगस्यादौ । (२) नाभिर्नामराजा । (३) पुत्रः (४) ऋषभजिनः । (५) विधाता । (६) राजसभा या राजन्यव्रजेनावभासित: वेधाः तु राजसभावेन राजगुणस्वभावेन शोभितः ।
(७) चकार । (८) लोकनिर्माणम् । (९) स्वेन ॥१४॥ हील० पुरा० । हे स्वामिनि] ! पुरा-पूर्वं नाभिभूचन्द्रस्य सुतः श्रीऋषभदेवः अभवत् । यः स्वयंभूरिव
जगत्सृष्टिं चकार । किंभूतो यः आत्मभूश्च ? । राज्ञां सभासु अवभासितः । अथवा रजोगुणस्वभावेन
भासितः ॥१५॥ हीसुं० अमुष्य 'नाभेयजिनावनीनभोमणेरजायन्त शतं तनूभवा: ।
पवेरिवास्त्रा: पक्रतवः शतक्रतोरिवच्छ”दानीव पुनः “पयोरुहः ॥१५॥ (१) ऋषभराजस्य । “मध्यंदिनाद(व)थ(धि)विधेर्वसुधाविवस्वाश(न्)" इति नैषधे । (२) पुत्राः । (३) वज्रस्य । (४) कोणाः । (५) यज्ञाः । (६) इन्द्रस्य । (७) पत्राणि ।
(८) कमलस्य ॥१५॥ 1. रुहाः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org