SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५८ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० सुखं स्वकीये' शयने 'निषेदुषी मुदं महास्वप्नजुषं प्रपेदुषी । - इदं "कलाकेलिमरालमानसे व्यचिन्तयत्सा 'विदुषीव मानसे ॥८७॥ (१) शय्यायाम् । (२) उपविष्टा । (३) प्राप्ता । (४) स्मर एव हंसस्तस्य क्रीडा) मानससरःसदृशं (५) विज्ञा । (६) चित्ते ॥८७॥ हील० सुखं स्वमन्दिरे स्थिता सती । पुनर्महास्वप्नोद्भवां मुदं प्रपन्ना सती सा काम एव हंसस्तस्य मानसनाम्नि सरसि चित्ते । इदं वक्ष्यमाणं चिन्तयति स्म ॥*८८|| हीसुं० 'पुनः 'सृजन्त्यां मयि मुद्रणां दृशोष्प(: प)रैरप स्वप्नविजृम्भितैरसौ । निहन्यतां माऽ'सहजैरिव ग्रहैस्त्रिकोणकेन्द्रोपगतः "शुभग्रहः ॥८८॥ (१) द्वितीयवारम् । (२) कुर्वन्त्याम् । (३) निद्राम् । (४) कुस्वप्नविलसितैः । (५) वैरिभिः । (६) नवपञ्चमं त्रिकोणं चतुरस्त्राणि तेषु प्राप्तः । (७) प्रशस्यग्रहः ॥८८॥ हील० पुनर्द्वितीयवारं दृशोनिद्रां कुर्वत्यां मयि असौ सुस्वप्नः कुस्वप्नविलसितैर्मा हन्यताम् । यथाऽसहजैः शत्रुभिर्ग्रहैभीममन्दादिभिस्त्रिकोणं नवपञ्चमं प्रथमचतुःसप्तमदशमाख्यानि केन्द्राणि तेषु भवनेषु गतः शुभग्रहो गुरुबुधादिर्यथा हन्यते निर्बलीक्रियते ॥८९।। हीसुं० 'इदं विमृश्येयमजूह वन्मुदा सखीरशेषा: "स्वकपारिपार्श्व( श्वि)काः । 'द्विरेफगुञ्जारवमझुवादिनी वसन्तलक्ष्मीष्पि(: पि)ककामिनीरिव ॥८९॥ (१) पूर्वोक्तम् । (२) विचार्य । (३) आकारयामास । ( ४ ) निजसमीपवर्तिनीः । (५) भ्रमरगुञ्जितमिव मनोज्ञं वदतीत्येवंशीला । (६) कोकिलाः ॥८९॥ हील० इदं विमृश्य इयं निजसमीपवर्तिनी: सखीराकारयामास । यथा भ्रमरगुञ्जितेन मनोज्ञवादिनी वसन्तलक्ष्मी: कोकिला: आकारयति ॥९०॥ हीसुं० ततो 'वयस्योऽन्तिक-मागता 'मधुव्रताङ्गनाश्चुत लतामिव स्मिताम् । बभाषिरे 'कोकिलकामिनीगणक्वणाऽद्वयीवादनिनादयाऽनया ॥९०॥ (१) सख्यः । ( २ ) भुंगा ( भृङ्म्यः ) । (३) आम्रतरुम् । ( ४ ) कोकिलकामिनीनिकरस्य कलकूजितमिवाद्वयीवादः असाधारणता (तया) यस्मिंस्तादृग्ध्वनिर्यस्याः ॥१०॥ हील० ततो० । यद्वद्भराङ्गना आम्रलतां आश्रयन्ते । तद्वत्समीपं आश्रिताः सख्यः अनया भाषिताः । किं भूतया अनया ? । कोकिलागणानां क्वणेन रावेण सहाद्वयीवादो एकीभावो यस्य तादृशो निनादो यस्यास्तादृश्या ॥ ९१॥ हीसुं० 'चकोरिके चन्द्रकले लवङ्गिके मृणालिके 4पुष्पकले कुरङ्गिके । कुरङ्गनाभे सुरभे शशिप्रभे विनोदिके मोदिनि वन्दि सुन्दरि ॥९१॥ 1. ०ये सदने हीमु० । 2. ०वत्ततः सखी० हीमु० । 3. ०माश्रिता हीमु० । 4. पुष्पलते हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy