SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५७ द्वितीयः सर्गः हीसुं० इति प्रणीय' श्रुतिगोचरं वचः प्रियस्य दधे 'पुलकोद्गमस्तया । तडिद्वतामु र्व्वरयेव "जीवनं निपीय सस्याङ्करराजिराजिता ॥८३॥ (१) कृत्वा श्रवणगतम्, श्रुत्वेत्यर्थः । (२) रोमाञ्चकञ्चकः । (३) मेघानाम् । (४) सर्वसस्यभुवा । (५) पानीयं (६) पीत्वा (७) धान्यप्ररोहश्रेणिशोभिता ॥८३॥ हील० इति० । इति प्रियवचः श्रुत्वा तया रोमाञ्चाविर्भावो धृतः । यथा मेघानां पानीयं पीत्वा सर्वसस्या (यया) भुवा सस्याङ्कुरश्रेणिशोभनं ध्रियते ॥८४।। हीसु० धवः सुधाधामसगोत्रवक्त्रयेत्यवादि बद्धाञ्जलिपाणिपद्मना( या)। वरे सुरेन्दोरिव कान्त तावके वचः प्रपञ्चेऽव्यभिचारितास्तु मे ॥८४॥ (१) भर्ता । (२) चन्द्रोपममुखया । (३) रचितोऽञ्जलिर्येन तादृक्करकमलं यस्याः । (४) प्रकृष्टदेवस्य । (५) सत्यता ॥८४॥ हील० धवः०। चन्द्रसमवक्त्रया तया इति रीत्या धवः पतिर्भाषितः । इति किम् ? हे कान्त ! त्वदीये वचोविस्तारे मे सत्यतास्तु । यथा इन्द्रादिवरे सत्यता भवेत् ।।*८५।। हीसु० मिथ:१ प्रथाभिर्वचसां विचस्विनौ "कियच्चिरं तस्थतुरत्र 'दम्पती । वसन्तफुल्लत्सहकारकानने "पिकाविवोदी रितपञ्चमस्वनौ ॥८५॥ (१) परस्परम् । (२) वचनविस्तारैः । (३) प्रगल्भवचनौ । ( ४ ) कियन्तं समयम् । (५) जायापती । (६) वसन्तसमयेन विकसन्माकन्दवने । (७) कोकिलौ । (८) प्रकटीकृतपञ्चमालापौ ॥८५॥ हील० मिथ:० । अत्रेभ्यगृहे वाग्विस्तारैस्तौ दम्पती कियद्वेलां स्थितौ । इवोत्प्रेक्ष्यते । वसन्तेन फुल्लतां सहकाराणां वने प्रकटीकृतः पञ्चमरागस्य ध्वनिर्याभ्यां, तादशौ पिकौ । "पिकी च पिकश्च पिकौ' । तथा च सिद्धान्तकौमुद्याम्-पुमान् स्त्रिया तल्लक्षणश्चेदेव विशेषः । स्त्रिया सहोक्तौ पुमान् शिष्यते न स्त्री । स्त्रीपुंलक्षणश्चेदेव विशेषे । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । तल्लक्षणः किम् ? कुक्कुटमयूर्यो ||८६॥ हीसुं० मुदाथ नाथी शयनीयमन्दिरं क्रमेण' पौरन्दरसद्मसुन्दरम् । व्यभूषयत्कि पुरुषप्रभोरिवारविन्ददृङ्मन्दरकन्दरोदरम् ॥८६॥ इति स्वप्न विचारः ॥ (१) भर्तुरनुज्ञानन्तरम् । (२) शय्यागृहम् । (३) वैजयन्तसदृशम् । (४) किंनरेन्द्रस्य कान्ता मेरुगुहामध्ये ॥८६॥ हील० मुदा० । इन्द्रमन्दिरसुन्दरं शय्यागृहं नाथी अलङ्करोति स्म । यथा इन्द्रस्य स्त्री मेरुगुहामध्यमलङ्कुरुते ||*८७॥ 1. मेण सङ्क्रन्दनसद्म० हीमु० । 2. नविचारकथनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy