________________
५६
'श्री हीरसुन्दर' महाकाव्यम्
निगद्यते स्म व्यवहारिणा क्षणं विमृश्य सा तेन "सुकेशमानिनी । ‘रथाङ्गनाम्नेव ‘रथाङ्गबान्धवोदये रथाङ्गी 'स्वसमीपमीयुषी ' ॥८०॥ युग्मम् । ( १ ) दन्तसन्ततिज्योत्सनया व्याप्तया । "दशनचन्द्रिकया व्यवभासित" मिति रघुवंशे । (२) धवलीकृताधरप्रान्तविभागया । ( ३ ) वक्षोविस्तारे विलसनशीला (४) वर्द्धयता । (५) प्रकृष्टहारान् ॥७९॥
( १ )भाषिता ( २ ) विचार्य । ( ३ ) नाथी । ( ४ ) कुंराख्येन । (५) सुकेशीं स्वां मन्यत इि सुकेशमानिनी " क्यङ्मानिनोश्चे" ति पुंवद्भावः । (६) चक्रवाकेण । (७) सूर्योद्रमे । (८)
आगता ॥८०॥
हील० द्विजा० । तेन व्यवहारिणा सा सुकेशीमानिनी निगद्यते स्म । भाषितेत्यर्थः । यथा भानोरुदये चक्रवाकेन समीपागता सती चक्रवाकी निवेद्यते । किं । तेन दन्तज्योत्स्नया व्याप्तया । पुनर्धवलीकृत औष्ठप्रान्तदेशो यया । तादृश्या ईषद्धसितलक्ष्म्या कृत्वा हृदयस्याभोगो विस्तारस्तत्र विलसन्तीत्येवंशीला । प्रधानमुक्तावलीहारानुपचिन्वता पुष्णता ॥८०-८१* ।।
हीसुं० 'अनेकपस्वप्ननिरीक्षणात्प्रिये सुतं तदन्वर्थमवाप्स्यसेऽचिरात् । 'महोदयं विन्दति मण्डली यथा 'समाधिभाजां 'परमात्मदर्शनात् ॥८१॥
(१) गजस्वप्नावलोकनात् । (२) तस्यानेकपस्यान्वर्थोऽनेकान् पाति रक्षति इत्यनुगतार्थो यस्य । (३) स्तोककालेन । (४) मोक्षम् । (५) लभते । ( ६ ) योगिनाम् । ( ७ ) परमब्रह्मस्वरूपदर्शनात् । ध्यानावस्थायां परमज्योतिःस्वरूपावलोकनात्सिद्धि प्राप्नोति । योगिनो हि यदा ध्यानेन हृदि परमात्मानं पश्यन्ति तथा( दा ) ध्यानाद्विरमन्ति' इति श्रुतिः ॥८१॥ हील० अने० । हे अम्भोजलोचने ! गजस्वप्नप्रदर्शनात्त्वया तस्यानेकपस्यान्वर्थो अनेकान्पाति रक्षति स्वामितया इत्यनुगतार्थो यस्य तादृशः पुत्रः लप्स्यते । यथा यतिसमया केवलज्ञानलाभान्मोक्षो लभ्यते ॥ * ८२।। हीसुं० 'जयन्तवज्जम्भ निशुम्भभामिनी पतिं चमूनामिव 'सर्वमङ्गला ।
शेव शौरे : 'सुमनश्शरासनं क्रमाच्च पुत्रं प्रविष्यसि प्रिये ॥८२॥
( १ ) इन्द्रपुत्रः । ( २ ) इन्द्राणी । ( ३ ) स्कन्दम् । (४) पार्वती । ( ५ ) लक्ष्मीः । ( ६ ) प्रद्युम्नम् । (७) जनयिष्यसि ॥ ८२ ॥
हील०
जय० । यथा शची जयन्तं सूते । पुनर्यथा पार्वती स्वामिकार्त्तिकं सूते । यथा लक्ष्मीः कामं प्रसूते । तथा त्वं सुतं प्रसविष्यसि ॥ ८३ ॥
1. सविधे समीयुषी हीमु० । 2. ०णादवाप्स्यते तदन्वर्थसुतोऽचिरात्त्वया हीमु० । 3. महोदयः केवललम्भतो मुनिसमज्ययेवाम्बुजमञ्जलोचने हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org