________________
५५
द्वितीयः सर्गः हीसुं० 'तया क्रमादिभ्यविभावरीवरो विमुदणा'गोचरतामवापितः ।
"वचोविलासैररुणांशुभिर्यथाऽर विन्दवन्दं "दिवसाननश्रिया ॥७५॥ (१) नाथीदेव्या । (२) कुंराख्यः पतिः । (३) जागरितः । (४) सुकुमारवाणीभिः । (५)
सूर्यकिरणैः । (६) कमलाकरः । (७) प्रभातलक्ष्म्या ॥७५॥ हील. तया० । तया स इभ्यचन्द्र : वनविभ्रमैः विमुद्रणाया जागरणस्य गोचरं गमितः । प्रबोधित इत्यर्थः ।
यथा प्रभातलक्ष्म्या सूर्यकिरणैः पद्मनिकरः प्रबोध्यते ॥★७६।। हीसुं० सुमध्वजोर्वीधरजैत्रशस्त्रया 'रहस्यवत्स्वप्न उदात्तनेत्रया ।
"विनिद्रतां लोचनयोर्वितन्वते पन्यवेदि तस्मै व्यवहारिभास्वते ॥७६॥ (१) स्मरराजजयनशीलप्रहरणया । (२) गुप्तवृत्तिमिव । (३) विशालचक्षुषा । (४)
प्रबुध्यमानाय । (५) कथितम् । (६) कुंरामहेभ्याय ॥७६॥ हील० सुम० । कामभूपस्य जैत्रं यत्शस्त्रं तद्रूपया । पुनः स्फारनेत्रया । तस्य नेत्रयोनिद्राभावात्स्मेरतां कुर्वते।
इभ्यसूर्याय रहस्यवन्निवेदितम् ॥७७॥ हीसुं० किमावयोरेष' फलं प्रदास्यति 'स्वपाणिसिक्तस्मयमानशाखिवत् ।
इदं निगद्य प्रमदाद्वसुन्धराप्सरा व्यरंसीद्वयवहारिवर्णिनी ॥७७॥ (१) स्वप्नः । (२) निजहस्ताभ्यां जलसेकात् विकसत्तरुरिव । (३) कथयित्वा । (४)
पृथिव्या अप्सरा इव । (५) कंराख्यमहेभ्यस्य प्रिया नाथी ॥७७॥ हील० किमा० । एषः स्वप्न: आवयोः स्वकरसिक्तप्रफुल्लिततरुवतिक फलं दास्यति ?। इदं कथयित्वा
उर्वसी सदृशा सा इभ्यस्त्री विरमति स्म ॥७८।। हीसु० 'तदाननेन्दोरमृतोम्मिमालिनो गिरं सुधाया भगिनीमिवोद्गताम् ।
"निपीय 'कर्णैः पुटकैरि वान्तरा स 'कूणिताक्षष्प (: प)रमां मुदं दधौ ॥७८॥ (१) नाथीवदनचन्द्रात् । (२) सुधासमुद्रात् । “तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ" इति नैषधे । (३) प्रकटीभूताम् । (४) सादरं निशम्य । (५) श्रवणैः । (६) नितरां पीत्वा च पुटकैः । (७) अन्तरा मनोमध्ये । (८) किञ्चिनिमीलिते
नयने येन । (९) वचनागोचरम् । (१०) हर्षम् ॥७८॥ . हील० तदा० । अमृतस्य उर्मिमाली समुद्रस्तादृशान्नाथीवदनचन्द्रादुद्गतां प्रकटीभूताममृतसदृशां वाचं पुटकसदृशैः
___ कर्णैः श्रुत्वा कूणि[ते] निमीलिते अक्षिणी येन स इभ्यः परमां मुदं धारयति स्म ॥७९।। हीसुं० द्विजावलीचन्द्रिकयानुविद्धया स्मितश्रिया श्वेतितसृक्वदेशया ।
३भुजान्तराभोगविलासिनीरिवो पचिन्वता 'चञ्चुरमौक्तिकावलीः ॥७९॥ 1. ०णाया गमितः सगोचरम् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org