SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० सुखं शयाना निशि निद्रयाऽङ्गना निभाल्य तं स्वप्नमवाप संमदम् । यथा परब्रह्म समीररुन्ध(रोध)नैर्निबद्ध धी'रासनयोगिमण्डली ॥७१॥ (१) सुखेन स्वपन्ती । (२) वीक्ष्य । (३) परमज्योतिः । (४) प्राणापानादिवायूनां वशीकरणैः । (५) रचितपद्मासना योगभाजां राजिः ॥७१॥ हील० सुखं सुप्ता सा स्त्री स्वप्नं दृष्ट्वा मुदमाप । यथान्तर्वायुनिरोधे परमात्मानं दृष्ट्वा पद्मासनस्थिता योगिनां श्रेणिष्प(: प)रमां मुदमाप्नोति ॥*७२।। हीसुं० गभीरिमाणं दधतः स पल्लवस्मितप्रसूनव्रजिराजितान्तरात् । स्वहंसतूलीशयनोदरादसौ क्षणादु दस्थात्करिणीव सैकतात् ॥७२॥ (१) निम्नताम् । (२) प्रवालकलितविकचत्कुसुमनिकरशोभितमध्यात् । (३) आत्मनो हंसेनोपलक्षिता तूली प्रस्तरणोपकरणविशेषस्तत्संयुक्तं यत् । शयनीयं शय्या तस्य मध्यात् । (४) उत्थिता । (५) तटात् ॥७२॥ हील० गभी० । गम्भीरात् । पुनः किसलयसहिता विकसिता ये पुष्पव्रजास्तै राजितं अन्तरं यस्य तादृशं यत्स्वकीयं हंसतूलीनाम्ना शयनम् । तन्मध्यात् नाथी तत्कालमुत्थिता । यथा हस्तिनी तटादुत्तिष्ठते ॥७३॥ हीसुं० 'मरालबालेव विलासगामिनी क्षितौ ३क्षिपन्ती पदपद्मयामलम् । ततः समुद्दिश्य पतिं पतिव्रता "महेभ्यपत्नी पदवीं व्यभूषयत् ॥७३॥ (१) हंसीव । (२) मन्थरगमनशीला । (३) स्थापयन्ती । (४) सती, पतिरेव व्रतं यस्याः। का? तमेव त्रिधा कामयते नान्यं सा पतिव्रता । (५) नाथी । (६) मार्गम् । (७) शोभयति स्म ॥७३॥ हील० मरा० । हंसीव लीलगतिः । पुनः पृथिव्यां चरणकमलयुगं स्थापयन्ती सती पति उद्दिश्य ततः शयनादुत्थितानन्तरं इभ्यपत्नी मार्गमलङ्कृतवती ।।७४।। हीसुं० क्षणादथोवलयो+सी मणीविभूषणध्वंसितरोदसीतमाः । असौ पुरस्तात्प्रकटीबभूवुषी प्रियस्य मूर्तेव कुलाधिदेवता ॥७४॥ (१) महीमण्डलोर्वसी । “विशति विशति वेदीमुर्वसी सेयमुफ्" इति नैषधे । (२) रत्नाभरणकिरणनिर्दलितभूमीनभोध्वान्ता । (३) कुलाधिष्ठात्री सुरी ॥७४॥ हील० क्षणा० । भूवलयस्य उर्वसी नामाप्सरा तादृशी । पुनः रत्नभूषणैर्निलितं रोदस्योावाभूम्योस्तमो यया तादृशी । सा प्रियस्याग्रे प्रकटिता । यथा मूतिमती कुलदेवी ||७५।।। 1. ०पद्मा० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy