SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ * द्वितीयः सर्गः हीसुं० अखण्डचण्डेतरधाममण्डलान्तरालतो निर्गतम वर्त्मना । महीतले 'स्त्यानतया कथञ्चनावतिष्ठमानं किमु वा सुधारसम् ॥६७॥ (१) सम्पूर्णचन्द्रबिम्बमध्यात् । (२) लाञ्छनमार्गेण । (३) पिण्डत्वेन । (४) तिष्ठन्तम् ॥६७॥ हील. अख० । अखण्डो यस्तीक्ष्णेतरकिरणः शशी, तस्य बिम्बमध्याल्लाञ्छनमार्गेण निःसृतम् पुनर्निश्चलतया स्थिति कुर्वाणं अमृतद्रवं इव ॥६८|| हीसुं० 'सृजन्तमुच्चैः२ ३स्वकरं मदोदयात्कुलादि सान्द्रप्रतिनादमेदुरैः । स्वजितैः "स्पद्धितया पयोमुचां चमूं "विगायन्तमिवातिकोपतः ॥६८॥ (१) कुर्वन्तम् । ( २ ) ऊर्ध्वम् । (३) निजशुण्डादण्डम् । ( ४ ) मन्दरप्रमुखशैलेषु निबिडप्रतिशब्देन पुष्टैः । (५) स्पर्द्धनशीलत्वेन । (६) घनानाम् अप्मतां "नवाम्बुदानीकमुहूर्तलाञ्छने" इति रघुवंशे । (७) निन्दन्तम् । (८) अधिकक्रोधेन ॥६८॥ हील० सृज० । किं कुर्वन्तम् ? उच्चैः करं कुर्वन्तम् । पुनष्कि(: किं) कुर्वन्तम् ? । महत्पर्वतेषु प्रतिच्छन्देन पुष्टैर्गजितैर्मेघानां सेनामवगणयन्तम् ॥६९।। हीसं० कतहलेनेव 'महीविहारिणं महीधरं कैरवबन्धुधारिणः । किमेतयोर्भाग्य नभोमणेरह:५ ६शरद्विधोर्वा किमु "पिण्डितं महः ॥६९॥ इति गजस्वप्न : ॥ 'पञ्चभिःकुलकम् ॥ (१) भूमण्डलचारिणम् । (२) पर्वतम् । ईश्वरस्य कैलाशमित्यर्थः । (३) नाथीकुंराख्ययोः । (४) पुण्यसूर्यस्य । (५) दिवसः । (६) शारदशशिनो वा । (७) पिण्डीभूतम् । (८) कान्तिनिकरः ॥६९॥ हील० कुतू० । उत्प्रेक्ष्यते । चन्द्रधारिणः ईश्वरस्य कौतुकान्मह्यां चरन्तं कैलासमिव । किमथवा तयोर्भाग्यसूर्यस्य दिनम् । अथवा शरच्चन्द्रस्य पिण्डीभूतं तेज इव ।।७०।। हीसुं० २१अमोचि तं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । "पयोरुहिण्येव “पयोजबान्धवोदये शचीकान्तहरिन्महीधरे ॥७०॥ (१) मुक्ता । (२) निद्रायाम् । (३) नयनकमलमीलनम् । ( ४ ) पद्मिन्या । (५) सूर्योद्गमे । (६) पूर्वाचले ॥७०॥ हील० व्यमो० । अनया तं स्वप्नं दष्ट्वा, संलये निद्रायां, नयनकमलयोर्मुद्रणा निमीलनं, व्यमोचि मुक्ता । यथा इन्द्रहरितः पूर्वायाः, पर्वते उदयगिरौ सूर्योदयं विभाव्य पग्रिन्या नेत्रतुल्ययोः पयोजयोर्मुद्रणा मुकुलनं विमोच्यते ॥*७१।। 1. आदितः पञ्चभिः० हील० । 2. व्यमोचि हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy